भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 6.1

6.1.414

यच्चोक्तं पूर्वम् अत्रैव क्षणिकत्वप्रसाधकम्
नाशहेतोर् अयोगादि तद् इदानीं परीक्ष्यते ॥

6.1.415

हेतोः स्यान् नश्वरो भावो ऽनश्वरो वा विकल्प्य यत्
नाशहेतोर् अयोगित्वम् उच्यते तन् न युक्तिमत् ॥

6.1.416

हेतुं प्रतीत्य यद् असौ तथा नश्वर इष्यते
यथैव भवतो हेतुर् विशिष्टफलसाधकः ॥

6.1.417

तथास्वभाव एवासौ स्वहेतोर् एव जायते
सहकारिणम् आसाद्य यस् तथाविधकार्यकृत् ॥

6.1.418

न पुनः क्रियते किञ्चित् तेनास्य सहकारिणा
समानकालभावित्वात् तथा चोक्तम् इदं तव ॥

6.1.419

उपकारी विरोधी च सहकारी च यो मतः
प्रबन्धापेक्षया सर्वो नैककाले कदाचन ॥

6.1.420

सहकारिकृतो हेतोर् विशेषो नास्ति यद्य् अपि
फलस्य तु विशेषो ऽस्ति तत्कृतातिशयाप्तितः ॥

6.1.421

न चास्यातत्स्वभावत्वे स फलस्यापि युज्यते
सभागक्षणजन्माप्तेस् तथाविधतदन्यवत् ॥

6.1.422

अस्थानपक्षपातश् च हेतोर् अनुपकारिणी
अपेक्षायां नियुङ्क्ते यत् कार्यमेतद् वृथोदितम् ॥

6.1.423

यस्मात् तस्याप्य् अदस् तुल्यं विशिष्टफलसाधकम्
भावहेतुं समाश्रित्य ननु न्यायान् निदर्शितम् ॥

6.1.424

एवं च व्यर्थम् एवेह व्यतिरिक्तादिचिन्तनम्
नाश्यमाश्रित्य नाशस्य क्रियते यद् विचक्षणैः ॥

6.1.425

किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते
व्यापाद्यते सदा यस्मान् न कश्चित् केनचित् क्वचित् ॥

6.1.426

कारणत्वात् स सन्तान विशेषप्रभवस्य चेत्
हिंसकस् तन् न सन्तान समुत्पत्तेर् असंभवात् ॥

6.1.427

सांवृतत्वात् व्ययोत्पादौ सन्तानस्य खपुष्पवत्
न स्तस्तदधर्मत्वाच् च हेतुस् तत्प्रभवे कुतः ॥

6.1.428

विसभागक्षणस्याथ जनको हिंसको न तत्
स्वतो ऽपि तस्य तत्प्राप्तेर् जनकत्वाविशेषतः ॥

6.1.429

हन्म्येनम् इति संक्लेशाद् हिंसकश् चेत् प्रकल्प्यते
नैवं त्वन्नीतितो यस्माद् अयम् एव न युज्यते ॥

6.1.430

संक्लेशो यद् गुणोत्पादः स चाक्लिष्टान् न केवलात्
न चान्यसचिवस्यापि तस्यानतिशयात् ततः ॥

6.1.431

तं प्राप्य तत्स्वभावत्वात् ततः स इति चेन् ननु
नाशहेतुम् अवाप्यैवं नाशपक्षे ऽपि न क्षतिः ॥

6.1.432

अन्ये तु जन्यम् आश्रित्य सत्स्वह्बावाद्यपेक्षया
एवम् आहुर् अहेतुत्वं जनकस्यापि सर्वथा ॥

6.1.433

न सत्स्वभावजनकस् तद्वैफल्यप्रसंगतः
जन्मायोगादिदोषाच् च नेतरस्यापि युज्यते ॥

6.1.434

न चोभयादिभावस्य विरोधासंभवादितः
स्वनिवृत्त्यादिभावादौ कार्याभावादितो ऽपरे ॥

6.1.435

न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः
असिद्धेस् तत्र नीत्या तद् व्यवहारनिषेधतः ॥

6.1.436

मानाभावे परेणापि व्यवहारो निषिध्यते
सज्ज्ञानशब्दविषयस् तद्वद् अत्रापि दृश्यताम् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc