भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 5.2

5.2.403

किं च विज्ञानामात्रत्वे न संसारापवर्गयोः
विशेषो विद्यते कश्चित् तथा चैतद् वृथोदितम् ॥

5.2.404

चित्तम् एव हि संसारो रागादिक्लेशवासितम्
तद् एव तैर् विनिर्मुक्तं भवान्त इति कथ्यते ॥

5.2.405

रागादिक्लेशवर्गो यन् न विज्ञानात् पृथग् मतः
एकान्तैकस्वभावे च तस्मिन् किं केन वासितम् ॥

5.2.406

क्लिष्टं विज्ञानम् एवासौ क्लिष्टता तस्य यद्वशात्
नील्यादिवद् असौ वस्तु तद्वद् एव प्रसज्यते ॥

5.2.407

मुक्तौ च तस्य भेदेन भावः स्यात् पटशुद्धिवत्
ततो बाह्यार्थतासिद्धिर् अनिष्टा संप्रसज्यते ॥

5.2.408

प्रकृत्यैव तथाभूतं तद् एव क्लिष्टतेति चेत्
तदन्यूनातिरिक्तत्वे केन मुक्तिर् विचिन्त्यताम् ॥

5.2.409

असत्य् अपि च या बाह्ये ग्राह्यग्राहकलक्षणा
द्विचन्द्रभ्रान्तिवद् भ्रान्तिर् इयं नः क्लिष्टतेति चेत् ॥

5.2.410

अस्त्व् एतत् किन्तु तद्धेतु भिन्नहेत्वन्तरोद्भवा
इयं स्यात् तिमिराभावे न हीन्दुद्वयदर्शनम् ॥

5.2.411

न चासद् एव तद्धेतुर् बोधमात्रं न चापि तत्
सदैव क्लिष्टतापत्तेर् इति मुक्तिर् न युज्यते ॥

5.2.412

मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका
भावे ऽपि सर्वदा तस्याः सम्यग् एतत् विचिन्त्यताम् ॥

5.2.413

विज्ञानमात्रवादो यत् नेत्थं युक्त्योपपद्यते
प्राज्ञस्याभिनेवेशो न तस्माद् अत्रापि युज्यते ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc