भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 5.1

5.1.375

विज्ञानमात्रवादो ऽपि न सम्यगुपपद्यते
मानं यत् तत्त्वतः किञ्चिद् अर्थाभावे न विद्यते ॥

5.1.376

न प्रत्यक्षं यतो ऽभावा लम्बनं न तद् इष्यते
नानुमानं तथाभूत सल्लिङ्गानुपपत्तितः ॥

5.1.377

उपलब्धिलक्षणप्राप् -तो ऽर्थो यन् नोपलभ्यते
ततश् चानुपलब्ध्यैव तदभावो ऽवसीयते ॥

5.1.378

उपलब्धिलक्षणप्राप् -तिस् तद्धत्वन्तरसंहतिः
एषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् ॥

5.1.379

सहार्थेन तज्जनन स्वभावानीति चेन् ननु
जनयत्य् एव सत्य् एवम् अन्यथातत्स्वभावता ॥

5.1.380

योग्यताम् अधिकृत्याथ तत्स्वभावत्वकल्पना
हन्तैवम् अपि सिद्धो वः कदाचिद् उपलब्धितः ॥

5.1.381

अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते
न हि लोके ऽश्वम् आषादेः सिद्धा पक्त्यादियोग्यता ॥

5.1.382

पराभिप्रायतो ह्य् एतद् एवं चेद् उच्यते न यत्
उपलब्धिलक्षणप्राप् -तो ऽर्थस् तस्योपलभ्यते ॥

5.1.383

अतद्ग्रहणभावैश् च यदि नाम न गृह्यते
तत एतावतासत्त्वं न तस्यातिप्रसंगतः ॥

5.1.384

विज्ञानं यत् स्वसंवेद्यं न त्वर्थो युक्त्ययोगतः
अतस् तद्वेदने तस्य ग्रहणं नोपपद्यते ॥

5.1.385

एवं चाग्रहणाद् एव तदभावो ऽवसीयते
अतः किमुच्यते मानम् अर्थाभावे न विद्यते ॥

5.1.386

अर्थग्रहणरूपं यत् तत् स्वसंवेद्यम् इष्यते
तद्वेदने ग्रहस् तस्य ततः किं नोपपद्यते ॥

5.1.387

घटादिज्ञानम् इत्य् आदि संवित्तेस् तत्प्रवृत्तितः
प्राप्तेर् अर्थक्रियायोगात् स्मृतेः कौतुकभावतः ॥

5.1.388

ज्ञानमात्रे तु विज्ञानं ज्ञानम् एवेत्य् अदो भवेत्
प्रवृत्त्यादि ततो न स्यात् प्रसिद्धं लोकशास्त्रयोः ॥

5.1.389

तदन्यग्रहणे चास्य प्रद्वेषो ऽर्थे ऽनिबन्धनः
ज्ञानान्तरे ऽपि सदृशं तदसंवेदनादि यत् ॥

5.1.390

युक्त्ययोगाश् च यो ऽर्थस्य गीयते जातिवादतः
ग्राह्यादिभावद्वारेण ज्ञानवादे ऽप्य् असौ समः ॥

5.1.391

नैकान्तग्राह्यभावं तद् ग्राहकाभावतो भुवि
ग्राहकैकान्तभावं तु ग्राह्याभावाद् असंगतम् ॥

5.1.392

विरोधान् नोभयाकारम् अन्यथा तद् असद् भवेत्
निःस्वभावत्वतस् तस्य सत्तैवं युज्यते कथम् ॥

5.1.393

प्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम्
अकर्मकं तथा चैतत् स्वयम् एव प्रकाशते ॥

5.1.394

यथास्ते शेत इत्य् आदौ विना कर्म स एव हि
तथोच्यते जगत्य् अस्मिंस् तथा ज्ञानम् अपीष्यताम् ॥

5.1.395

उच्यते सांप्रतम् अदः स्वयम् एव विचिन्त्यताम्
प्रमाणाभावतस् तत्र यद्य् एतद् उपपद्यते ॥

5.1.396

एवं न यत् तदात्मानम् अपि हन्त प्रकाशयेत्
अतस् तद् इत्थं नो युक्तम् अन्यथा न व्यवस्थितिः ॥

5.1.397

व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम्
ध्रुवं यतस् ततो ऽकर्म -कत्वम् अस्य कथं भवेत् ॥

5.1.398

व्यवस्थापकम् अस्यैवं भ्रान्तं चैतत् तु भावतः
तथेत्य् अभ्रान्तम् अत्रापि ननु मानं न विद्यते ॥

5.1.399

भ्रान्ताच् चाभ्रान्तरूपा न युक्तियुक्ता व्यवस्थितिः
दृष्टा तैमिरिकादीनाम् अक्षादाव् इति चेन् न तत् ॥

5.1.400

नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः
भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥

5.1.401

न च प्रकाशमात्रं तु लोके क्वचिद् अकर्मकम्
दीपादौ युज्यते न्यायाद् अतश् चैतद् अपार्थकम् ॥

5.1.402

दृष्टान्तमात्रतः सिद्धिस् तदत्यन्तविधर्मिणः
न च साध्यस्य यत् तेन शब्दमात्रम् असाव् अपि ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc