भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 4.4

4.4.303

यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा
जनकत्वेन बुद्ध्यादेः कल्प्यते साप्य् अनर्थिका ॥

4.4.304

सर्वेषां बुद्धिजनने यदि सामर्थ्यम् इष्यते
रूपादीनां ततः कार्य भेदस् तेभ्यो न युज्यते ॥

4.4.305

रूपालोकादिकं कार्यम् अनेकं चोपजायते
तेभ्यस् तावद्भ्य एवेति तद् एतच् चिन्त्यतां कथम् ॥

4.4.306

प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना
तेषां प्रभूतभावेन तदेकत्वविरोधतः ॥

4.4.307

तान् अशेषान् प्रतीत्येह भवद् एकं कथं भवेत्
एकस्वभावम् एकं यत् तत् तु नानेकभावतः ॥

4.4.308

यतो भिन्नस्वभावत्वे सति तेषाम् अनेकता
तावत् सामर्थ्यजत्वे च कुतस् तस्यैकरूपता ॥

4.4.309

यज् जायते प्रतीत्यैक सामर्थ्यं नान्यतो हि तत्
तयोर् अभिन्नतापत्तेर् भेदे भेदस् तयोर् अपि ॥

4.4.310

न प्रतीत्यैकसामर्थ्यं जायते तत्र किञ्चन
सर्वसामर्थ्यभूतिस्व भावत्वात् तस्य चेन् न तत् ॥

4.4.311

प्रत्येकं तस्य तद्भावे युक्ता ह्य् उक्तस्वभावता
न हि तत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् ॥

4.4.312

अत्र चोक्तं न चाप्य् एषां तत्स्वभावत्वकल्पना
साध्वीत्य् अतिप्रसंगादेर् अन्यथाप्य् उक्तिसंभवात् ॥

4.4.313

अथान्यत्रापि सामर्थ्यं रूपादीनां प्रकल्प्यते
न तद् एव तद् इत्य् एवं नाना चैकत्र तत् कुतः ॥

4.4.314

सामग्रीभेदतो यश् च कार्यभेदः प्रगीयते
नानाकार्यसमुत्पादाद् एकस्याः सो ऽपि बाध्यते ॥

4.4.315

उपादानादिभावेन न चैकस्यास्तु संगता
युक्त्या विचार्यमाणेह तदेनकत्वकल्पना ॥

4.4.316

रूपं येन स्वभावेन रूपोपादानकारणम्
निमित्तकारणं ज्ञाने तत् तेनान्येन वा भवेत् ॥

4.4.317

यदि तेनैव विज्ञानं बोधरूपं न युज्यते
अथान्येन बलाद् रूपं द्विस्वभावं प्रसज्यते ॥

4.4.318

अबुद्धिजनकव्यावृत् -त्या चेद् बुद्धिप्रसाधकः
रूपक्षणो ह्य् अबुद्धित्वात् कथं रूपस्य साधकः ॥

4.4.319

स हि व्यावृत्तिभेदेन रूपादिजनको ननु
उच्यते व्यवहारार्थम् एकरूपो ऽपि तत्त्वतः ॥

4.4.320

अगन्धजननव्यावृत्त्य् -आयं कस्मान् न गन्धकृत्
उच्यते तदभावाच् चेद् भावो ऽन्यस्याः प्रसज्यते ॥

4.4.321

एवं व्यावृत्तिभेदे ऽपि तस्यानेकस्वभावता
बलाद् आपद्यते सा चा -युक्ताभ्युपगमक्षतेः ॥

4.4.322

विभिन्नकार्यजनन -स्वभावाश् चक्षुर् आदयः
यदि ज्ञाने ऽपि भेदः स्यात् न चेद् भेदो न युज्यते ॥

4.4.323

सामग्र्यपेक्षयाप्य् एवं सर्वथा नोपपद्यते
यद् हेतुहेतुमद्भावस् तद् एषाप्य् उक्तिमात्रकम् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc