भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 4.3

4.3.276

असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः
नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् ॥

4.3.277

असदुत्पद्यते तद्धि विद्यते यस्य कारणम्
विशिष्टशक्तिमत् तच् च ततस्तत्सत्त्वसंस्थितिः ॥

4.3.278

अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः
विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते ॥

4.3.279

तत्सत्त्वसाधकं तन् न तद् एव हि तदा न यत्
अत एवेदमिच्छन्तु न वै तस्येत्ययोगतः ॥

4.3.280

वस्तुस्थित्या तथा तद्यत् तदनन्तरभावि तत्
नान्यत् ततश् च नाम्नेह न तथास्ति प्रयोजनम् ॥

4.3.281

नाम्ना विनापि तत्त्वेन विशिष्टाविधिना विना
चिन्त्यतां यदि सन्न्यायाद् वस्तुस्थित्यापि तत्तथा ॥

4.3.282

साधकत्वे तु सर्वस्य ततो भावः प्रसज्यते
कारणाश्रयणो ऽप्य् एवं न तत्सत्त्वं तदन्यवत् ॥

4.3.283

किञ्च तत् कारणं कार्य भूतिकाले न विद्यते
ततो न जनकं तस्य तदासत्त्वात् परं यथा ॥

4.3.284

अनन्तरं च तद्भावस् तत्त्वाद् एव निरर्थकः
समं च हेतुफलयोर् नाशोत्पादवसङ्गतौ ॥

4.3.285

स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां बेदे तयोः कुतः
नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता ॥

4.3.286

न हेतुफलभावश् च तस्यां सत्यां हि युज्यते
तन्निबन्धनभावस्य द्वयोर् अपि वियोगतः ॥

4.3.287

कल्पितश् चेद् अयं धर्म धर्मिभावो हि भावतः
न हेतुफलभावः स्यात् सर्वथा तदभावतः ॥

4.3.288

न धर्मी कल्पितो धर्म धर्मिभावस् तु कल्पितः
पूर्वो हेतुर् निरंशः स उत्तरः फलम् उच्यते ॥

4.3.289

पूर्वस्यैव तथाभावा भावे हन्तोत्तरं कुतः
तस्यैव तु तथाभावे ऽसतः सत्त्वमदो न सत् ॥

4.3.290

तं प्रतीत्य तदुत्पाद इति तुच्छम् इदं वचः
अतिप्रसंगतश् चैव तथा चाह महामतिः ॥

4.3.291

सर्वथैव तथाभावि वस्तुभावादृते न यत्
कारणानन्तरं कार्यं द्राग् नभस्तस् ततो न तत् ॥

4.3.292

तस्यैव तत्स्वभावत्व कल्पनासम्पद् अप्य् अलम्
न युक्ता युक्तिवैकल्य राहुणा जन्मपीडनात् ॥

4.3.293

तदनन्तरभावित्व मात्रतस् तद्व्यवस्थितेः
विश्वस्य विश्वकार्यत्वं स्यात् तद्भावाविशेषतः ॥

4.3.294

अभिन्नदेशतादीनाम् असिद्धत्वाद् अनन्वयात्
सर्वेषाम् अविशिष्टत्वान् न तन्नियमहेतुता ॥

4.3.295

यो ऽप्य् एकस्यान्यतो भावः सन्ताने दृश्यते ऽन्यदा
तत एव विदेशस्थात् सो ऽपि यत् तन् न बाधकम् ॥

4.3.296

एतेनैतत् प्रतिक्षिप्तं यद् उक्तं सूक्ष्मबुद्धिना
नासतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥

4.3.297

वस्तुनो ऽनन्तरं सत्ता कस्यचिद् या नियोगतः
सा तत्फलं मता सैव भावोत्पत्तिस् तदात्मिका ॥

4.3.298

असदुत्पत्तिर् अप्य् अस्य प्रागसत्त्वात् प्रकीर्तिता
नासतः सत्त्वयोगेन कारणात् कार्यभावतः ॥

4.3.299

प्रतिक्षिप्तं च तद् हेतोः प्राप्नोति फलतां विना
असतो भावकर्तृत्वं तदवस्थान्तरं च सः ॥

4.3.300

वस्तुनो ऽनन्तरं सत्ता तत्तथातां विना भवेत्
नभःपाताद् असत्सत्त्व योगाद् वेति न तत्फलम् ॥

4.3.301

असदुत्पत्तिर् अप्य् एव नास्यैव प्राग् असत्त्वतः
किं त्व् असत् सद् भवत्य् एवम् इति सम्यग् विचार्यताम् ॥

4.3.302

एतच् च नोक्तवद् युक्त्या सर्वथा युज्यते यतः
नाभावो भावतां याति व्यवस्थितम् इदं ततः ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc