शास्त्रवार्त्तासमुच्चय · अध्याय 4.2
नाभावो भावतां याति शशशृङ्गे तथागतेः
भावो नाभावम् एतीह तदुत्पत्त्यादिदोषतः ॥
सतो ऽसत्त्वे तदुत्पादस् ततो नाशो ऽपि तस्य यत्
तन्नष्टस्य पुनर्भावः सदा नाशो न तत्स्थितिः ॥
स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणस्थितौ
युज्यते ह्य् एतद् अप्य् अस्य तथा चोक्तानतिक्रमः ॥
क्षणस्थितौ तदैवास्य नास्थितिर् युक्त्यसंगतेः
न पश्चाद् अपि सा नेति सतो ऽसत्त्वं व्यवस्थितम् ॥
न तद् भवति चेत् किं न सदा सत्त्व तद् एव यत्
न भवत्य् एतद् एवास्य भवनं सूरयो विदुः ॥
कादाचित्कमदो यस्माद् उत्पाद्यस्य तद् ध्रुवम्
तुच्छत्वान् नेत्य् अतुच्छस्याप्य् अतुच्छत्वात् कथं ननु ? ॥
तदा भूतेर् इयं तुल्या तन्निवृत्तेर् न तस्य किम्
तुच्छताप्तेर्न भावो ऽस्तु नासत् सत् सदसत् कथम् ? ॥
स्वहेतोर् एव तज्जातं तत्स्वभावं यतो ननु
तदनन्तरभावित्वाद् इतरत्राप्य् अदः समम् ॥
नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता
ततः कथं नु तद्भाव इति युक्त्या कथं समम् ? ॥
स एव भावस् तद्धेतुस् तस्यैव तथास्थितेः
स्वनिवृत्तिः स्वभावो ऽस्य भावस्येव ततो न किम् ? ॥
ज्ञेयत्ववत् स्वभावो ऽपि न चायुक्तो ऽस्य तद्विधः
तदभावे न तज्ज्ञानं तन्निवृत्तेर् गतिः कथम् ? ॥
तत् तद्विधस्वभावं यत् प्रत्यक्षेण तथैव हि
गृह्यते तद्गतिस् तेन नैतत् क्वचिद् अनिश्चयात् ॥
समारोपादसौ नेति गृहीतं तत्त्वतस् तु तत्
यथाभावग्रहात् तस्या तिप्रसंगाददो ऽप्यसत् ॥
गृहीतं सर्वम् एतेन तत्त्वतो निश्चयः पुनः
मितग्रहसमारोपाद् इति तत्त्वव्यवस्थितेः ॥
एकत्र निश्चयो ऽन्यत्र निरंशानुभवाद् अपि
न तथा पाटवाभावाद् इत्य् अपूर्वम् इदं तमः ॥
स्वभावक्षणतो ह्य् ऊर्ध्वं तुच्छता तन्निवृत्तितः
नासाव् एकक्षणग्राहि ज्ञानात् सम्यग् विभाव्यते ॥
तस्यां च नागृहीतायां तत् तथेति विनिश्चयः
न हीन्द्रियम् अतीतादि ग्राहकं सद्भिर् इष्यते ॥
अन्ते ऽपि दर्शनं नास्य कपालादिगतेः क्वचित्
न तद् एव घटाभावो भावत्वेन प्रतीतितः ॥
न तद्गतेर् गतिस् तस्य प्रतिबन्धविवेकतः
तस्यैवाभवनत्वे तु भावाविच्छेदतो ऽन्वयः ॥
तस्माद् अवश्यम् एष्टव्यं तद् ऊर्ध्वं तुच्छम् एव तत्
ज्ञेयं सद् ज्ञायते ह्य् एतद् अपरेणापि युक्तिमत् ॥
नोत्पत्त्यादेस् तयोर् ऐक्यं तुच्छेतरविशेषतः
निवृत्तिभेदतश् चैव बुद्धिभेदाच् च भाव्यताम् ॥
एतेनैतत् प्रतिक्षिप्तं यद् उक्तं न्यायमानिना
न तत्र किञ्चिद् भवति न भवत्य् एव केवलम् ॥
भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्वनुरोधतः
न भावो भवतीत्य् उक्तम् अभावो भवतीत्य् अपि ॥
एतेनाहेतुकत्वे ऽपि ह्य् अभूत्वा नाशभावतः
सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥
प्रतिक्षिप्तं च यत् सत्ता ऽनाशित्वागो ऽनिवारितम्
तुच्छरूपा तदासत्ता भावाप्तेर्नाशितोदिता ॥
भावस्याभवनं यत् तद् अभावभवनं तु यत्
तत्तथाधर्मके ह्य् उक्त विकल्पो न विरुध्यते ॥
तद् एव न भवत्येतद् विरुद्धमिव लक्ष्यते
तद् एव वस्तुसंस्पर्शाद् भवनप्रतिषेधतः ॥
सतो ऽसत्त्वं यतश् चैवं सर्वथा नोपपद्यते
भावो नाभावमेतीह ततश् चैतद् व्यवस्थितम् ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0