भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 4.1

4.1.238

मन्यन्ते ऽन्ये जगत् सर्वं क्लेशकर्मनिबन्धनम्
क्षणक्षयि महाप्रज्ञा ज्ञानमात्रं तथापरे ॥

4.1.239

त आहुः क्षणिकं सर्वं नाशहेतोर् अयोगतः
अर्थक्रियासमर्थत्वात् परिणामात् क्षयेक्षणात् ॥

4.1.240

ज्ञानमात्रं च यल् लोके ज्ञानम् एवानुभूयते
नार्थस् तद्व्यतिरेकेण ततो ऽसौ नैव विद्यते ॥

4.1.241

अत्राप्य् अभिदधत्य् अन्ये स्मरणादेर् असंभवात्
बाह्यार्थवेदनाच् चैव सर्वम् एतद् अपार्थकम् ॥

4.1.242

अनुभूतार्थविषयं स्मरणं लौकिकं यतः
कालान्तरे तथानित्ये मुख्यम् एतन् न युज्यते ॥

4.1.243

सो ऽन्तेवासी गुरुः सो ऽयं प्रत्यभिज्ञाप्यसंगता
दृष्टकौतुकम् उद्वेगः प्रवृत्तिः प्राप्तिर् एव च ॥

4.1.244

स्वकृतस्योपभोगस् तु दूरोत्सारित एव हि
शीलानुष्ठानहेतुर् यः स नश्यति तदैव यत् ॥

4.1.245

संतानापेक्षयास्माकं व्यवहारो ऽखिलो मतः
स चैक एव तस्मिंश् च सति कस्मान् न युज्यते ॥

4.1.246

यस्मिन्न् एव तु संताने आहिता कर्मवासना
फलं तत्रैव संधत्ते कर्पासे रक्तता यथा ॥

4.1.247

एतद् अप्य् उक्तिमात्रं यन् न हेतुफलभावतः
सन्तानो ऽन्यः स चायुक्त एवासत्कार्यवादिनः ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc