शास्त्रवार्त्तासमुच्चय · अध्याय 3.2
प्रधानोद्भवम् अन्ये तु मन्यन्ते सर्वम् एव हि
महद् आदिक्रमेणेह कार्यजातं विपश्चितः ॥
प्रधानाद् महतो भावो ऽहंकारस्य ततो ऽपि च
अक्षतन्मात्रवर्गस्य तन्मात्राद् भूतसंहतेः ॥
घटाद्य् अपि पृथिव्यादि परिणामसमुद्भवम्
नात्मव्यापारजं किञ्चित् तेषां लोके ऽपि विद्यते ॥
अन्ये तु ब्रुवते ह्य् एतत् प्रक्रियामात्रवर्णनम्
अविचार्यैव तद् युक्त्या श्रद्धया गम्यते परम् ॥
युक्त्या तु बाध्यते यस्मात् प्रधानं नित्यम् इष्यते
तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ? ॥
तस्यैव तत्स्वभावत्वाद् इति चेत् किं न सर्वदा
अत एवेति चेत् तस्य तथात्वे ननु तत् कुतः ? ॥
नानुपादानम् अन्यस्य भावे ऽन्यज् जातुचिद् भवेत्
तदुपादानतायां च न तस्यैकान्तनित्यता ॥
घटाद्यपि कुलालादि सापेक्षं दृश्यते भवत्
अतो न तत् पृथिव्यादि परिणामसमुद्भवम् ॥
तत्रापि देहः कर्ता चेन् नैवासाव् आत्मनः पृथक्
पृथग् एवेति चेद् भोग आत्मनो युज्यते कथम् ? ॥
देहभोगेन नैवास्य भावतो भोग इष्यते
प्रतिबिम्बोदयात् किन्तु यथोक्तं पूर्वसूरिभिः ॥
"पुरुषो ऽविकृतात्मैव स्वनिर्भासम् अचेतनम्
मनः करोति सान्निध्याद् उपाधिः स्फटिकं यथा ॥
विभक्तेदृक्परिणतौ बुद्धौ भोगो ऽस्य कथ्यते
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसो ऽम्भसि" ॥
प्रतिबिम्बोदयो ऽप्य् अस्य नामूर्तत्वेन युज्यते
मुक्तैर् अतिप्रसंगाच् च न वै भोगः कदाचन ॥
न च पूर्वस्वभावत्वात् स मुक्तानाम् असंगतः
स्वभावान्तरभावे च परिणामो ऽनिवारितः ॥
देहात् पृथक्त्व एवास्य न च हिंसादयः क्वचित्
तदभावे ऽनिमित्तत्वात् कथं बन्धः शुभाशुभः ॥
बन्धादृते न संसारो मुक्तिर् वास्योपपद्यते
यमादि तदभावे च सर्वम् एव ह्य् अपार्थकम् ॥
आत्मा न बध्यते नापि मुच्यते ऽसौ कदाचन
बध्यते मुच्यते चापि प्रकृतिः स्वात्मनेति चेत् ॥
एकान्तेनैकरूपाया नित्यायाश् च न सर्वथा
तस्याः क्रियान्तराभावाद् बन्धमोक्षौ तु युज्तितः ॥
मोक्षः प्रकृत्ययोगो यद् अतो ऽस्यः स कथं भवेत्
स्वरूपविगमापत्तेस् तथा तन्त्रविरोधतः ॥
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः
जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥
पुरुषस्योदिता मुक्तिर् इति तन्त्रे चिरन्तनैः
इत्थं न घटते चेयम् इति सर्वमयुक्तिमत् ॥
अत्रापि पुरुषस्यान्ये मुक्तिम् इच्छन्ति वादिनः
प्रकृतिं चापि सन्न्यायात् कर्मप्रकृतिम् एव च ॥
तस्याश् चानेकरूपत्वात् परिणामित्वयोगतः
आत्मनो बन्धनत्वाच् च नोक्तदोषसमुद्भवः ॥
नामूर्तं मूर्ततां याति मूर्तं न यात्य् अमूर्तताम्
यतो बन्धाद् यतो न्यायाद् आत्मनो ऽसंगतं तया ॥
देहस्पर्शादिसंवित्त्या न यात्य् एवेत्य् अत्युक्तिमत्
अन्योन्यव्याप्तिजा चेयम् इति बन्धादि संगतम् ॥
मूर्तयाप्यात्मनो योगो घटते नभसो यथा
उपघातादिभावश् च ज्ञानस्येव सुरादिना ॥
एवं प्रकृतिवादो ऽपि विज्ञेयः सत्य एव हि
कपिलोक्तत्वतश् चैव दिव्यो हि स महामुनिः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0