शास्त्रवार्त्तासमुच्चय · अध्याय 3.1
ईश्वरः प्रेरकत्वेन कर्ता कैश्चिद् इहेष्यते
अचिन्त्यचिच् छक्तियुक्तो ऽनादिशुद्धश् च सूरिभिः ॥
ज्ञानम् अप्रतिघं यस्य वैराग्यं च जगत्पतेः
ऐश्वर्यं चैव धर्मश् च सहसिद्धं चतुष्टयम् ॥
अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ॥
अन्ये त्व् अभिदधत्य् अत्र वीतरागस्य भावतः
इत्थं प्रयोजनाभावात् कर्तृत्वं युज्यते कथम् ? ॥
नरकादिफले कांश्चित् कांश्चित् स्वर्गादिसाधने
कर्मणि प्रेरयत्य् आशु स जन्तून् केन हेतुना ? ॥
स्वयम् एव प्रवर्तन्ते सत्त्वाश् चेत् चित्रकर्मणि
निरर्थकम् इहेशस्य कर्तृत्वं गीयते कथम् ? ॥
फलं ददाति चेत् सर्वं तत् तेनेह प्रचोदितम्
अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता ॥
आदिसर्गे ऽपि न हेतुः कृतकृत्यस्य विद्यते
प्रतिज्ञातविरोधित्वात् स्वभावो ऽप्य् अप्रमाणकः ॥
कर्मादेस् तत्स्वभावत्वे न किञ्चिद् बाध्यते विभोः
विभोस् तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ॥
ततश् चेश्वरकर्तृत्व वादो ऽयं युज्यते परम्
सम्यग् न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ॥
ईश्वरः परमात्मैव तदुक्तव्रतसेवनात्
यतो मुक्तिस् ततस् तस्याः कर्ता स्याद् गुणभावतः ॥
तदनासेवनाद् एव यत् संसारो ऽपि तत्त्वतः
तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥
कर्तायम् इति तद्वाक्ये यतः केषांचिद् आदरः
अतस् तदानुगुण्येन तस्य कर्तृत्वदेशना ॥
परमैश्वर्ययुक्तत्वान् मत आत्मैव चेश्वरः
स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः ॥
शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे
सत्त्वार्थसंप्रवृत्ताश् च कथं ते ऽयुक्तभाषिणः ॥
अभिप्रायस् ततस् तेषां सम्यग् मृग्यो हितैषिणा
न्यायशास्त्राविरोधेन यथाह मनुर् अप्यदः ॥
आर्षं च धर्मशास्त्रं च वेदशास्त्राविरोधिना
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0