शास्त्रवार्त्तासमुच्चय · अध्याय 2.2
कालादीनां च कर्तृत्वं मन्यन्ते ऽन्ये प्रवादिनः
केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया ॥
न कालव्यतिरेकेण गर्भबालशुभादिकम्
यत् किञ्चिज् जायते लोके तद् असौ कारणं किल ॥
कालः पचति भूतानि कालः संहरति प्रजाः
कालः सुप्तेषु जागर्त्ति कालो हि दुरतिक्रमः ॥
किञ्च कालादृते नैव मुद्गपक्तिर् अपीष्यते
स्थाल्यादिसंनिधाने ऽपि ततः कालाद् असौ मता ॥
कालाभावे च गर्भादि सर्वं स्याद् अव्यवस्थया
परेष्टहेतुसद्भाव मात्राद् एव तदुद्भवात् ॥
न स्वभावातिरेकेण गर्भबालशुभादिकम्
यत् किञ्चिज् जायते लोके तद् असौ कारणं किल ॥
सर्वभावाः स्वभावेन स्वस्वभावे तथा तथा
वर्त्तन्ते ऽथ निवर्त्तन्ते कामचारपराङ्मुखाः ॥
न विनेह स्वभावेन मुद्गपक्तिर् अपीष्यते
तथाकालादिभावे ऽपि नाश्वमाषस्य सा यतः ॥
अतत्स्वभावात् तद्भावे ऽतिप्रसंगो ऽनिवारितः
तुल्ये तत्र मृदः कुम्भो न पटादीत्ययुक्तिमत् ॥
नियतेनैव रूपेण सर्वे भावा भवन्ति यत्
ततो नियतिजा ह्य् एते तत्स्वरूपानुवेधतः ॥
यद् यदैव यतो यावत् तत् तदैव ततस् तथा
नियतं जायते न्यायात् क एतां बाधितुं क्षमः ॥
न चर्ते नियतिं लोके मुद्गपक्तिर् अपीक्ष्यते
तत्स्वभावादिभावे ऽपि नासावनियता यतः ॥
अन्यथानियतत्वेन सर्वभावः प्रसज्यते
अन्योन्यात्मकतापत्तेः क्रियावैफल्यम् एव च ॥
न भोक्तृव्यतिरेकेण भोग्यं जगति विद्यते
न चाकृतस्य भोगः स्यान् मुक्तानां भोगभावतः ॥
भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत्
दृश्यते ऽध्यक्षम् एवेदं तस्मात् तत् कर्मजं हि तत् ॥
न च तत् कर्मवैधुर्ये मुद्गपक्तिर् अपीक्ष्यते
स्थाल्यादिभङ्गभावेन यत् क्वचिन् नोपपद्यते ॥
चित्रं भोग्यं तथा चित्रात् कर्मणो ऽहेतुतान्यथा
तस्य यस्माद् विचित्रत्वं नियत्यादेर् न युज्यते ॥
नियतेर् नियतात्मत्वान् नियतानां समानता
तथानियतभावे च बलात् स्यात् तद्विचित्रता ॥
न च तन्मात्रभावादेर् युज्यते ऽस्या विचित्रता
तदन्यभेदकं मुक्त्वा सम्यग् न्यायाविरोधतः ॥
न जलस्यैकरूपस्य वियत्पाताद् विचित्रता
ऊषरादिधराभेदम् अन्तरेणोपजायते ॥
तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता
तत्कर्तृत्वे च चित्रत्वं तद्वत् तस्याप्यसंगतम् ॥
तस्या एव तथाभूतः स्वभावो यदि चेष्यते
त्यक्तः नियतिवादः स्यात् स्वभावाश्रयणान् ननु ॥
स्वो भावश् च स्वभावो ऽपि स्वसत्तैव हि भावतः
तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥
ततस् तस्याविशिष्टत्वाद् युगपद् विश्वसंभवः
न चासाव् इति सद्युक्त्या तद्वादो ऽइप् न संगतः ॥
तत्तत्कालादिसापेक्षो विश्वहेतुः स चेन् ननु
मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् ॥
कालो ऽपि समयादिर् यत् केवलं सो ऽपि कारणम्
तत एव ह्य् असंभूतेः कस्यचिन् नोपपद्यते ॥
अतश् च काले तुल्ये ऽपि सर्वत्रैव न तत्फलम्
अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः ॥
अतः कालादयः सर्वे समुदायेन कारणम्
गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥
न चैकैकत एवेह क्वचित् किञ्चिद् अपीक्ष्यते
तस्मात् सर्वस्य कार्यस्य सामग्री जनिका मता ॥
स्वभावो नियतिश् चैव कर्मणो ऽन्ये प्रचक्षते
धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0