शास्त्रवार्त्तासमुच्चय · अध्याय 2.1
हिंसादिभ्यो ऽशुभं कर्म तदन्येभ्यश् च तच्छुभम्
जायते नियमो मानात् कुतो ऽयम् इति नापरे ॥
आगमाख्यात् तदन्ये तु तच् च दृष्टाद्यबाधितम्
सर्वार्थविषयं नित्यं व्यक्तार्थं परमात्मना ॥
चन्द्रसूर्योपरागादेस् ततः संवाददर्शनात्
तस्याप्रत्यक्षे ऽपि पापादौ न प्रामाण्यं न युज्यते ॥
यदि नाम क्वचिद् दृष्टः संवादो ऽन्यत्र वस्तुनि
तद्भावस् तस्य तत्त्वं वा कथं समवसीयते ? ॥
आगमैकत्वतस् तच् च वाक्यादेस् तुल्यतादिना
सुवृद्धसंप्रदायेन तथा पापक्षयेण च ॥
अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते
आशङ्का सर्वगा यस्मात् छद्मस्थस्योपजायते ॥
अपरीक्षापि नो युक्ता गुणदोषाविवेकतः
महत् संकटमायातम् आशङ्के न्यायवादिनः ॥
तस्माद् यथोदितात् सम्यग् आगमख्यात् प्रमाणतः
हिंसादिभ्यो ऽशुभादीनि नियमो ऽयं व्यवस्थितः ॥
क्लिष्टाद् हिंसाद्यनुष्ठानात् प्राप्तिः क्लिष्टस्य कर्मणः
यथापथ्यभुजो व्याधेर् अक्लिष्टस्य विपर्ययात् ॥
स्वभाव एष जीवस्य यत् तथापरिणामभाक्
बध्यते पुण्यपापाभ्यां माध्यस्थ्यात् तु विमुच्यते ॥
सुदूरम् अपि गत्वेह विहितासूपपत्तिषु
कः स्वभावागमावन्ते शरणं न प्रपद्यते ॥
प्रतिपक्षस्वभावेन प्रतिपक्षागमेन च
बाधित्वात् कथं ह्य् एतौ शरणं युक्तिवादिनाम् ॥
प्रतीत्या बाध्यते यो यत् स्वभावो न स युज्यते
वस्तुनः कल्प्यमानो ऽपि वह्न्यादेः शीततादिवत् ॥
वह्नेः शीतत्वम् अस्त्य् एव तत्कार्यं किं न दृश्यते
दृश्यते हि हिमासन्ने कथम् इत्थं स्वभावतः ॥
हिमस्यापि स्वभावो ऽयं नियमाद् वह्निसंनिधौ
करोति दाहम् इत्य् एवं वह्न्यादेः शीतता न किम् ॥
व्यवस्थाभावतो ह्य् एवं या त्वद्बुद्धिर् इहेदृशी
सा लोष्टाद् अस्य यत् कार्यं तत् त्वत्तस् तत्स्वभावतः ॥
एवं सुबुद्धिशून्यत्वं भवतो ऽपि प्रसज्यते
अस्तु चेत् को विवादो नो बुद्धिशून्येन सर्वथा ॥
अन्यस्त्वाहेह सिद्धे ऽपि हिंसादिभ्यो ऽशुभादिके
शुभादेर् एव सौख्यादि केन मानेन गम्यते ॥
अत्रापि ब्रुवते केचित् सर्वथा युक्तिवादिनः
प्रतीतिगर्भया युक्त्या किलैतद् अवसीयते ॥
तयाहुर् नाशुभात् सौख्यं तद्बाहुल्यप्रसंगतः
बहवः पापकर्माणो विरलाः शुभकारिणः ॥
न चैतद् दृश्यते लोके दुःखबाहुल्यदर्शनात्
शुभात् सौख्यं ततः सिद्धम् अतो ऽन्यच् चाप्य् अतो ऽन्यतः ॥
अन्ये पुनर् इदं श्राद्धा ब्रुवते आगमेन वै
शुभादेर् एव सौख्यादि गम्यते नान्यतः क्वचित् ॥
अतीन्द्रियेषु भावेषु प्रायः एवंविधेषु यत्
छद्मस्थस्याविसंवादि मानम् अत्र न विद्यते ॥
यच् चोक्तं दुःखबाहुल्य दर्शनं तन् न साधकम्
क्वचित् तथोपलम्भे ऽपि सर्वत्रादर्शनाद् इति ॥
सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम्
साधनं तद् भवत्य् एवम् आगमात् तु न भिद्यते ॥
अशुभाद् अप्य् अनुष्ठानात् सौख्यप्राप्तिश् च या क्वचित्
फलं विपाकविरसा सा तथाविधकर्मणः ॥
ब्रह्महत्यानिदेशानु -ष्ठानाद् ग्रामादिलाभवत्
न पुनस् तत एवैतद् आगमाद् एव गम्यते ॥
प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः
तथानाप्तप्रणीतत्वाद् आगमत्वं न युज्यते ॥
दृष्टेष्टाभ्यां विरोधाच् च तेषां नाप्तप्रणीतता
नियमाद् गम्यते यस्मात् तद् असाव् एव दर्श्यते ॥
अगम्यगमनादीनां धर्मसाधनता क्वचित्
उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुद्ध्यते ॥
स्वधर्मोत्कर्षाद् एव तथा मुक्तिर् अपीष्यते
हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते ॥
माध्यस्थ्यम् एव तद्धेतुर् अगम्यगमनादिना
साध्यते तत् परं येन तेन दोषो न कश्चन ॥
एतद् अप्य् उक्तिमात्रं यद् अगम्यगमनादिषु
तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते ॥
अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः
विशुद्धभावनाभ्यासात् तन्माध्यस्थ्यं परं यतः ॥
यावद् एवंविधं नैवं प्रवृत्तिस् तावद् एव या
साविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् ॥
नाप्रवृत्तेर् इयं हेतुः कुतश्चिद् अनिवर्त्तनात्
सर्वत्र भावाविच्छेदाद् अन्यथागम्यसंस्थितिः ॥
तच् चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः
संभाव्यते परं ह्य् एतद् भावशुद्धेर् महात्मनाम् ॥
संसारमोचकस्यापि हिंसा यद् धर्मसाधनम्
मुक्तिश् चास्ति ततस् तस्याप्य् एष दोषो ऽनिवारितः ॥
मुक्तिकर्मक्षयाद् एव जायते नान्यतः क्वचित्
जन्मादिरहिता यत् तत् स एवात्र निरूप्यते ॥
हिंसाद्युत्कर्षसाध्यो वा तद्विपर्ययजो ऽपि वा
अन्यहेतुर् अहेतुर् वा स वै कर्मक्षयो ननु ॥
हिंसाद्युत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः
कर्मक्षयास्थितौ च स्यान् मुक्तानां मुक्तताक्षितिः ॥
तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः
कर्मक्षयः सतां यस्माद् अहिंसादिप्रसाधनः ॥
तदन्यहेतुसाध्यत्वे तत्स्वरूपम् असंस्थितम्
अहेतुत्वे सदा भावो ऽभावो वा स्यात् सदैव हि ॥
मुक्तिः कर्मक्षयाद् इष्टा ज्ञानयोगफलं च सः
अहिंसादि च तद्धेतुर् इति न्यायः सतां मतः ॥
एवं वेदविहितापि हिंसापायाय तत्त्वतः
शास्त्रचोदितभावे ऽपि वचनान्तरबाधनात् ॥
न हिंस्याद् इह भूतानि हिंसनं दोषकृन् मतम्
दाहवद् वैद्यके स्पष्टम् उत्सर्गप्रतिषेधतः ॥
ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस् तु चोदिते
न ततो ऽपि न दोषः स्यात् फलोद्देशेन चोदनात् ॥
एवं तत्फलभावे ऽपि चोदनातो ऽपि सर्वथा
ध्रुवम् औत्सर्गिको दोषो जायते फलचोदनात् ॥
अन्येषाम् अपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता
दर्शनीया कुशास्त्राणां ततश् च स्थितमित्यदः ॥
क्लिष्टं हिंसाद्यनुष्ठानं न यत् तस्यान्यतो भवेत्
ततः कर्ता स एव स्यात् सर्वस्यैव हि कर्मणः ॥
अनादिकर्मयुक्तत्वात् तन्मोहात् संप्रवर्तते
अहिते ऽप्य् आत्मनः प्रायो व्याधिपीडितचित्तवत् ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0