भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 1.5

1.5.110

लोकायतमतं प्राज्ञैर् ज्ञेयं पापौघकारणम्
इत्थं तत्त्वविलोमं यत् तन् न ज्ञानविवर्धनम् ॥

1.5.111

इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः
अदो ऽपि युक्तिशून्यं यन् नेत्थम् इन्द्रः प्रतार्यते ॥

1.5.112

तस्माद् दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम्
पापश्रुतं सदा धीरैर् वर्ज्यं नास्तिकदर्शनम् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc