भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 11.3

11.3.692

मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात्
नाकर्मणः क्वचिज् जन्म यथोक्तं पूर्वसूरिभिः ॥

11.3.693

दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥

11.3.694

जन्माभावे जरामृत्योर् अभावो हेत्वभावतः
तदभावे च निःशेष दुःखाभावः सदैव हि ॥

11.3.695

परमानन्दभावश् च तदभावे हि शाश्वतः
व्याबाधाभावसंसिद्धः सिधानां सुखम् इष्यते ॥

11.3.696

सर्वद्वन्द्वविनिर्मुक्ताः सर्वाबाधाविवर्जिताः
सर्वसंसिद्धसत्कार्याः सुखं तेषां किमुच्यते ॥

11.3.697

अमूर्ताः सर्वभावज्ञास् त्रैलोक्योपरिवर्तिनः
क्षीणसङ्गा महात्मानस् ते सदा सुखम् आसते ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc