भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 11.2

11.2.673

ज्ञानाद् एव नियोगेन सिद्धिम् इच्छन्ति केचन
अन्ये क्रियात एवेति द्वाभ्याम् अन्ये विचक्षणाः ॥

11.2.674

ज्ञानं हि फलदं पुंसां न किर्या फलदा मता
मिथ्याज्ञानात् प्रवृत्तस्य फलप्राप्तेर् असंभवात् ॥

11.2.675

ज्ञानहीनाश् च यल् लोके दृश्यन्ते हि महाक्रियाः
ताम्यन्ते ऽतिचिरं कालं क्लेशायासपरायणाः ॥

11.2.676

ज्ञानवन्तश् च तद्वीर्यात् तत्र तत्र स्वकर्मणि
विशिष्टफलयोगेन सुखिनो ऽल्पक्रिया अपि ॥

11.2.677

केवलज्ञानभावे च मुक्तिर् अप्य् अन्यथा न यत्
क्रिययावतो ऽपि यत्नेन तस्मात् ज्ञानाद् असौ मता ॥

11.2.678

क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम्
यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखिनो भवेत् ॥

11.2.679

क्रियाहीनाश् च यल् लोके दृश्यन्ते ज्ञानिनो ऽपि हि
कृपायतनम् अन्येषां सुखसम्पद्विवर्जिताः ॥

11.2.680

क्रियोपेताश् च तद्योगाद् उदग्रफलभावतः
मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनो ऽनघाः ॥

11.2.681

क्रियातिशययोगाच् च मुक्तिः केवलिनो ऽपि हि
नान्यथा केवलित्वे ऽपि तद् असौ तन्निबन्धना ॥

11.2.682

फलं ज्ञानक्रियायोगे सर्वम् एवोपपद्यते
तयोर् अपि च तद्भावः परमार्थेन नान्यथा ॥

11.2.683

साध्यम् अर्थं परिज्ञाय यदि सम्यक् प्रवर्तते
ततस् तत् साधयत्व् एव तथा चाह बृहस्पतिः ॥

11.2.684

सम्यक् प्रवृत्तिः साध्यस्य प्राप्त्युपायो ऽभिधीयते
तदप्राप्ताव् उपायत्वं न तस्या उपपद्यते ॥

11.2.685

असाध्यारम्भिणस् तेन सम्यग् ज्ञानं न जातुचित्
साध्यानारम्भिणश् चेति द्वयम् अन्योऽन्य्संगतम् ॥

11.2.686

अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते
आगमज्ञो ऽपि यस् तस्यां यथाशक्ति प्रवर्तते ॥

11.2.687

चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि
तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते ॥

11.2.688

न चासौ तत्स्वरूपज्ञो यो ऽन्यत्रापि प्रवर्तते
मालतीगन्धगणविद् दर्भे न रमते ह्य् अलिः ॥

11.2.689

मुक्तिश् च केवलज्ञान क्रियातिशयजैव हि
तद्भाव एव तद्भावात् तदभावे ऽप्य् अभावतः ॥

11.2.690

न विविक्तं द्वयं सम्यग् एतद् अन्यैर् अपीष्यते
स्वकार्यसाधनाभावाद् यथाह व्यासमहर्षिः ॥

11.2.691

बठरश् च तपस्वी च शूरश् चाप्य् अकृतव्रणः
मद्यपा स्त्री सतीत्वं च राजन् न श्रद्दधाम्य् अहम् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc