शास्त्रवार्त्तासमुच्चय · अध्याय 11.4
एता वार्ता उपश्रुत्य भावयन् बुद्धिमान् नरः
इहोपन्यस्तशास्त्राणां भावार्थम् अधिगच्छति ॥
शतानि सप्त श्लोकानाम् अनुष्टुप्छन्दसां कृतम्
आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयम् ॥
कृत्वा प्रकरणम् एतद् यद् अवाप्तं किञ्चिद् इह मया कुशलम् ।
भवविरहबीजम् अनघं लभतां भव्यो जनस् तेन ॥
यं बुद्धं बोधयन्तः शिखिजलमरुतस् तुष्टुवुर् लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्यत्वहेतु
सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां तस्मिन् देवाधिदेवे भगवति भवताधीयतां भक्तिरागः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0