भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 11.1

11.1.644

अन्ये त्व् अभिदधत्य् अत्र युक्तिमार्गकृतश्रमाः
शब्दार्थयोर् न संबन्धो वस्तुस्थित्येह विद्यते ॥

11.1.645

न तादात्म्यं द्वयाभाव प्रसंगाद् बुद्धिभेदतः
शस्त्राद्युक्तौ मुखच्छेदा -दिसंगात् समयस्थितेः ॥

11.1.646

अर्थासंनिधिभावेन तद्दृष्टावन्यथोक्तितः
अन्याभावनियोगाच् च न तदुत्पत्तिर् अप्य् अलम् ॥

11.1.647

परमार्थैकतानत्वे शब्दानाम् अनिबन्धना
न स्यात् प्रवृत्तिर् अर्थेषु दर्शनान्तरभेदिषु ॥

11.1.648

अतीताजातयोर् वापि न च स्याद् अनृतार्थता
वाचः कस्याश्चिद् इत्य् एषा बौद्धार्थविषया मता ॥

11.1.649

वाच्य इत्थम् अपोहस् तु न जातिः पारमार्थिकी
तदयोगाद् विना भेदं तदन्येभ्यस् तथास्थितेः ॥

11.1.650

सति चास्मिन् किम् अन्येन शब्दात् तद्वत्प्रतीतितः
तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात् तथा न किम् ॥

11.1.651

अभ्रान्तजातिवादे तु न दण्डाद् दण्डिवद् गतिः
तद्वत्य् उभयसाङ्कर्ये न भेदाद् वो ऽपि तादृशम् ॥

11.1.652

अन्ये त्व् अभिदधत्य् एवं वाच्यवाचकलक्षणः
अस्ति शब्दार्थयोर् योगस् तत्प्रतीत्यादितस् ततः ॥

11.1.653

नैतद् दृश्यविकल्प्यर्थै -कीकरणेन भेदतः
एकप्रमात्रभावाच् च तयोस् तत्त्वाप्रसिद्धितः ॥

11.1.654

शब्दात् तद्वासनाबोधो विकल्पस्य ततो हि यत्
तद् इत्थम् उच्यते ऽस्माभिर् न ततस् तदसिद्धितः ॥

11.1.655

विशिष्टं वासनाजन्म बोधस् तच् च न जातुचित्
अन्यतस् तुल्यकालादेर् विशेषो ऽन्यस्य नो यतः ॥

11.1.656

निष्पन्नत्वाद् असत्त्वाच् च द्वाभ्याम् अन्योदयो न सः
उपादानाविशेषेण तत्स्वभावं तु तत्कुतः ॥

11.1.657

न ह्य् उक्तवत् स्वहेतोस् तु स्याच् च नाशः सहेतुकः
इत्थं प्रकल्पने न्यायाद् अत एव न युक्तिमत् ॥

11.1.658

अनभ्युपगमाच् चेह तादात्म्यादिसमुद्भवाः
न दोषा नो न चान्ये ऽपि तद्भेदाद् हेतुभेदतः ॥

11.1.659

वन्ध्येतरादिको भेदो रामादीनां यथैव हि
मृषासत्यादिशब्दानां तद्वत् तद्धेतुभेदतः ॥

11.1.660

परमार्थैकतानत्वे ऽप्य् अन्यदोषोपवर्णनम्
प्रत्याख्यातं हि शब्दानाम् इति सम्यग् विचिन्त्यताम् ॥

11.1.661

अन्यदोषो यद् अन्यस्य युक्त्या युक्तो न जातुचित्
वक्त्यवर्णं न बुद्धानां भिक्ष्वादिः शबरादिवत् ॥

11.1.662

ज्ञायते तद्विशेषस् तु प्रमाणेतरयोर् इव
स्वरूपालोचनादिभ्यस् तथा दर्शनतो भुवि ॥

11.1.663

समयोपेक्षणं चेह तत्क्षयोपशमं विना
तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥

11.1.664

सर्ववाचकभावत्वाच् छब्दानां चित्रशक्तितः
वाच्यस्य च तथान्यत्र नागो ऽस्य समये ऽपि हि ॥

11.1.665

अनन्तधर्मकं वस्तु तद्धर्मः कश्चिद् एव च
वाच्यो न सर्व एवेति ततश् चैतन् न बाधकम् ॥

11.1.666

अन्यद् एवेन्द्रियग्राह्यम् अन्यच् छब्दस्य गोचरः
शब्दात् प्रत्येति भिन्नाक्षः न तु प्रत्यक्षम् ईक्षते ॥

11.1.667

अन्यथा दाहसम्बन्धाद् दाहं दग्धो ऽभिमन्यते
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥

11.1.668

इन्द्रियग्राह्यतो ऽन्यो ऽपि वाच्यो ऽसौ न च दाहकृत्
तथाप्रतीतितो भेदा -भेदसिद्ध्यैव वस्तु नः ॥

11.1.669

अपोहस्यापि वाच्यत्वम् उपपत्त्या न युज्यते
असत्त्वाद् वस्तुभेदेन बुद्ध्या तस्यापि बोधतः ॥

11.1.670

क्षणिकाः सर्वसंस्कारा अन्यथैतद् विरुध्यते
अपोहो यन् न संस्कारो न च क्षणिक इष्यते ॥

11.1.671

एवं च वस्तुनस् तत्त्वं हन्त शास्त्राद् अनिश्चितम्
तदभावे च सुव्यक्तं तद् एतत् तुषखण्डनम् ॥

11.1.672

बुद्धावर्णे ऽपि चादोषः संस्तवे ऽप्य् अगुणस् तथा
आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc