शास्त्रवार्त्तासमुच्चय · अध्याय 10.2
अत्रापि प्राज्ञ इत्य् अन्य इत्थम् आह सुभाषितम्
इष्टो ऽयम् अर्थः शक्येत ज्ञातुं सो ऽतिशयो यदि ॥
अयम् एवं न वेत्य् अन्य दोषो निर्दोषतापि वा
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्य् अपरे विदुः ॥
अत्रापि ब्रुवते वृद्धाः सिद्धम् अव्यभिचार्य् अपि
लोके गुणादिविज्ञानं सामान्येन महात्मनाम् ॥
तन्नीतिप्रतिपत्त्यादेर् अन्यथा तन् न युक्तिमत्
विशेषज्ञानम् अप्य् एवं तद्वद् अभ्यासतो न किम् ॥
दोषाणां ह्रासदृष्ट्येह तत्सर्वक्षयसंभवात्
तत्सिद्धौ ज्ञायते प्राज्ञैस् तस्यातिशय इत्य् अपि ॥
हृद्गताशेषसंशीति निर्णयादिप्रभावतः
तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः ॥
न चास्यादर्शने ऽप्य् अद्य साम्राज्यस्य् एव नास्तिता
संभवो न्याययुक्तस् तु पूर्वम् एव निदर्शितः ॥
प्रतिभालोचनं तावद् इदानीम् अप्य् अतीन्द्रिये
सुवैद्यसंयतादीनाम् अविसंवादि दृश्यते ॥
एवं तत्रापि तद्भावे न विरोधो ऽस्ति कश्चन
तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच् च साम्प्रतम् ॥
सर्वत्र दृष्टे संवादाद् अदृष्टे नोपजायते
ज्ञातुर् विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः ॥
वस्तुस्थित्यापि तत् तादृग् न विसंवादकं भवेत्
यथोत्तरं तथा दृष्टेर् इति चैतन् न सांप्रतम् ॥
सिद्ध्येत् प्रमाणं यद्य् एवम् अप्रमाणम् अथेह किम्
न ह्य् एकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि ॥
यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम्
यत्रागमे प्रमाणं स इष्यते पण्डितैर् जनैः ॥
आत्मा नामी पृथक् कर्म तत्संयोगाद् भवो ऽन्यथा
मुक्तिर् हिंसादयो मुख्यास् तन्निवृत्तिः ससाधना ॥
अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः
यत्रेदं युज्यते सर्वं योगिव्यक्तं स आगमः ॥
अधिकार्य् अपि चास्येह स्वयम् अज्ञो ऽपि यः पुमान्
कथितज्ञः पुनर् धीमांस् तद्वैयर्थ्यमतो ऽन्यथा ॥
परिचित्तादिधर्माणां गत्युपायाभिधानतः
सर्वार्थविषयो ऽप्य् एष इति तद्भावसंस्थितिः ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0