शास्त्रवार्त्तासमुच्चय · अध्याय 1.4
अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः
क्लिष्टं मनो ऽस्ति यन् नित्यं तद् यथोक्तात्मलक्षणम् ॥
यदि नित्यं तदात्मैव संज्ञाभेदो ऽत्र केवलम्
अथानित्यं ततश् चेदं न यथोक्तात्मलक्षणम् ॥
यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च
संसर्त्ता परिनिर्वाता स ह्य् आत्मा नान्यलक्षणः ॥
आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात्
नरादिरूपं तच्चित्रम् अदृष्टं कर्मसंज्ञितम् ॥
तथा तुल्ये ऽपि चारम्भे सदुपाये ऽपि यो नृणाम्
फलभेदः स नो युक्तो युक्त्या हेत्वन्तरं विना ॥
तस्मादवश्यमेष्टव्यं तत्र हेत्वन्तरं परैः
तदेवादृष्टमित्याहुर् अन्ये शास्त्रकृतश्रमाः ॥
भूतानां तत्स्वभावत्वाद् अयम् इत्य् अप्य् अनुत्तरम्
न भूतात्मक एवात्मेत्य् एतद् अत्र निदर्शितम् ॥
कर्मणो भौतिकत्वेन यद् वैतद् अपि साम्प्रतम्
आत्मनो व्यतिरिक्तं तत् चित्रभावं यतो मतम् ॥
शक्तिरूपं तद् अन्ये तु सूरयः संप्रचक्षते
अन्ये तु वासनारूपं विचित्रफलदं मतम् ॥
अन्ये त्व् अभिदधत्य् अत्र स्वरूपनियतस्य वै
कर्तुर् विनान्यसंबन्धं शक्तिर् आकस्मिकी कुतः ॥
तत्क्रियायोगतः सा चेत् तदपुष्टौ न युज्यते
तदन्ययोगाभावे च पुष्टिर् अस्य कथं भवेत् ॥
अस्त्य् एव सा सदा कन्तु क्रियया व्यज्यते परम्
आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन ॥
तदन्यावरणाभावाद् भावे वास्यैव कर्मता
तन्निराकरणाद् व्यक्तिर् इति तद्भेदसंस्थितिः ॥
पापं तद्भिन्नम् एवास्तु क्रियान्तरनिबन्धनम्
एवम् इष्टक्रियाजन्यं पुण्यं किम् इति नेक्ष्यते ॥
वासनाप्य् अन्यसंबन्धं विना नैवोपपद्यते
पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः ॥
बोधमात्रातिरिक्तं तद् वासकं किञ्चिद् इष्यताम्
मुख्यं तद् एव वः कर्म न युक्ता वासनान्यथा ॥
बोधमात्रस्य तद्भावे नास्ति ज्ञानम् अवासितम्
ततो ऽमुक्तिः सदैव स्याद् वैशिष्ट्यं केवलस्य न ॥
एवं शक्त्यादिपक्षो ऽयं घटते नापपत्तितः
बन्धान् न्यूनातिरिक्तत्वे तद्भावान् उपपत्तितः ॥
तस्मात् तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च
अदृष्टम् अवगन्तव्यं तस्य शक्त्यादिसाधकम् ॥
अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभे
धर्माधर्मौ तथा पाशः पर्यायास् तस्य कीर्त्तिताः ॥
हेतवो ऽस्य समाख्याताः पूर्वं हिंसानृतादयः
तद्वान् संयुज्यते तेन विचित्रफलदायिना ॥
नैवं दृष्टेष्टबाधा यत् सिद्धिश् चास्यानिवारिता
तद् एनम् एव विद्वांसस् तत्त्ववादं प्रचक्षते ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0