शास्त्रवार्त्तासमुच्चय · अध्याय 1.3
सतो ऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम्
अस्त्य् एव दर्शनं स्पष्टम् अहंप्रत्ययवेदनात् ॥
भ्रान्तो ऽहं गुरुर् इत्य् एषः सत्यम् अन्यस् त्व् असौ मतः
व्यभिचारित्वतो नास्य गमकत्वम् अथोच्यते ॥
प्रत्यक्षस्यापि तत् त्याज्यं तत्सद्भावाविशेषतः
प्रत्यक्षाभासम् अन्यच् चेद् व्यभिचारि न साधु तत् ॥
अहंप्रत्ययपक्षे ऽपि ननु सर्वम् इदं समम्
अतस् तद्वद् असौ मुख्यः सम्यक् प्रत्यक्षम् इष्यताम् ॥
गुर्वी मे तनुर् इत्य् आदौ भेदप्रत्ययदर्शनात्
भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु ॥
आत्मनात्मग्रहो ऽप्य् अस्य तथानुभवसिद्धितः
तस्यैव तत्स्वभावत्वात् न तु युक्त्या न युज्यते ॥
न च बुद्धिविशेषो ऽयम् अहंकारः प्रकल्प्यते
दानादिबुद्धिकाले ऽपि तथाहंकारवेदनात् ॥
आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः
सदैवाग्रहणं ह्य् एवं विज्ञेयं कर्मदोषतः ॥
अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृताम् अयम्
स्वयंज्योतिः सदैवात्मा तथा वेदे ऽपि पठ्यते ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0