भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 1.2

1.2.30

पृथिव्यादिमहाभूत कार्यमात्रम् इदं जगत्
न चात्मदृष्टसद्भावं मन्यन्ते भूतवादिनः ॥

1.2.31

अचेतनानि भूतानि न तद्धर्मो न तत्फलम्
चेतनास्ति च यस्येयं स एवात्मेति चापरे ॥

1.2.32

यदीयं भूतधर्मः स्यात् प्रत्येकं तेषु सर्वदा
उपलम्भ्येत सत्त्वादि काठिनत्वादयो यथा ॥

1.2.33

शक्तिरूपेणा सा तेषु सदातो नोपलभ्यते
न च तेनापि रूपेण सत्यसत्य् एव चेन् न तत् ॥

1.2.34

शक्तिवेतनयोरैव्यं नानात्वं वाथ सर्वथा
ऐक्ये सा चेतनेवेति नानात्वे ऽन्यस्य सा यतः ॥

1.2.35

अनभिव्यक्तिर् अप्य् अस्या न्यायतो नोपपद्यते
आवृतिर् न यद् अन्येन तत्त्वसंख्याविरोधतः ॥

1.2.36

न चासौ तत्स्वरूपेण तेषाम् अन्यतरेण वा
व्यञ्जकत्वप्रतिज्ञानात् नावृतिर् व्यञ्जकं यतः ॥

1.2.37

विशिष्टपरिणामभा -वे ऽपि ह्य् अत्रावृतिर् न वै
भावताप्तेस्तथा नाम व्यञ्जकत्वप्रसङ्गतः ॥

1.2.38

न चासौ भूतभिन्नो यत् ततो व्यक्तिः सदा भवेत्
भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते ॥

1.2.39

स्वकाले ऽभिन्न इत्य् एवं कालाभावे न सङ्गतम्
लोकसिद्धाश्रये त्व् आत्मा हन्त ! नाश्रीयते कथम् ॥

1.2.40

नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात्
सर्वेषां तदभावश् च चित्रकर्मविपाकतः ॥

1.2.41

लोके ऽपि नैकतः स्थानाद् आगतानां तथेक्ष्यते
अविशेषेण सर्वेषाम् अनुभूतार्थसंस्मृतिः ॥

1.2.42

दिव्यदर्शनतश् चैव तच्छिष्टाव्यभिचारतः
पितृकर्मादिसिद्धेश् च हन्त ! नात्माप्य् अलौकिकः ॥

1.2.43

काठिन्याबोधरूपाणि भूतान्य् अध्यक्षसिद्धितः
चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् ? ॥

1.2.44

प्रत्येकम् असती तेषु न च स्याद् रेणुतैलवत्
सती चेद् उपलभ्येत भिन्नरूपेषु सर्वदा ॥

1.2.45

असत् स्थूलत्वम् अण्वादौ घटादौ दृश्यते यथा
तथासत्येव भूतेषु चेतनापीति चेन् मतिः ॥

1.2.46

नासत् स्थूलत्वम् अण्वादौ तेभ्य एव तदुद्भवात्
असतस्तत्समुत्पादो न युक्तो ऽतिप्रसङ्गतः ॥

1.2.47

पञ्चमस्यापि भूतस्य तेभ्यो ऽसत्त्वाविशेषतः
भवेद् उत्पत्तिर् एवं च तत्त्वसंख्या न युज्यते ॥

1.2.48

न तज्जननस्वभावाश् चेत् ते ऽत्र मानं न विद्यते
स्थूलत्वोत्पाद इष्टश् चेत् तत्सद्भावे ऽप्य् असौ समः ॥

1.2.49

न च मूर्त्ताणुसङ्घात भिन्नं स्थूलत्वम् इत्य् अदः
तेषाम् एव तथाभावो न्याय्यं मानाविरोधतः ॥

1.2.50

भेदे तददलं यस्मात् कथं सद्भावम् अश्नुते
तदभावे ऽपि तद्भावे सदा सर्वत्र वा भवेत् ॥

1.2.51

न चैवं भूतसङ्घात मात्रं चैतन्यम् इष्यते
अविशेषेण सर्वत्र तद्वत् तद्भावसङ्गतेः ॥

1.2.52

एवं सति घटादीनां व्यक्तचैतन्यभावतः
पुरुषान् न विशेषः स्यात् स च प्रत्यक्षबाधितः ॥

1.2.53

अथ भिन्नस्वभावानि भूतान्य् एव यतस्ततः
तत्संघातेषु चैतन्यं न सर्वेष्व् एतद् अप्य् असत् ॥

1.2.54

स्वभावो भूतमात्रत्वे सति न्यायान् न भिद्यते
विशेषणं विना यस्मान् न तुल्यानां विशिष्टता ॥

1.2.55

स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः
अन्यभेदकभावे तु स एवात्मा प्रसज्यते ॥

1.2.56

हविर् गुडकणिक्कादि द्रव्यसङ्घातजान्य् अपि
यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् ॥

1.2.57

व्यक्तिमात्रत एवैषां ननु भिन्नस्वभावता
रसवीर्यविपाकादि कार्यभेदो न विद्यते ॥

1.2.58

तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा
यथेयम् अस्ति भूतानां तथा सापि कथं न चेत् ॥

1.2.59

कर्त्रभावात् तथा देश कालभेदाद्ययोगतः
न चासिद्धमदो भूत मात्रत्वे तदसंभवात् ॥

1.2.60

तथा च भूतमात्रत्वे न तत्सङ्घातभेदयोः
भेदकाभावतो भेदो युक्तः सम्यग् विचिन्त्यताम् ॥

1.2.61

एकस् तथापरो नेति तन्मात्रत्वे तथाविधः
यतस् तद् अपि नो भिन्नं ततस् तुल्यं च तत् तयोः ॥

1.2.62

स्यादेतद् भूतजत्वे ऽपि ग्रावादीनां विचित्रता
लोकसिद्धेति सिद्धैव न सा तन्मात्रजा ननु ॥

1.2.63

अदृष्टाकाशकालादि सामग्रीतः समुद्भवात्
तथैव लोकसंवित्तेर् अन्यथा तदभावतः ॥

1.2.64

न चेह लौकिको मार्गः स्थितो ऽस्माभिर् विचार्यते
किं त्व् अयं युज्यते क्वेति त्वन्नीतौ चोक्तवन् न सः ॥

1.2.65

मृतदेहे च चैतन्यम् उपलभ्येत सर्वथा
देहधर्मादिभावेन तत् तद्धर्मादि नान्यथा ॥

1.2.66

न च लावण्यकार्कश्य श्यामत्वैर् व्यभिचारिता
मृतदेहे ऽपि सद्भावाद् अध्यक्षेणैव संगतेः ॥

1.2.67

न चेल् लावण्यसद्भावो न स तन्मात्रहेतुकः
अत एवान्यसद्भावाद् अस्त्य् आत्मेति व्यवस्थितम् ॥

1.2.68

न प्राणादिर् असौ मानं किं तद्भावे ऽपि तुल्यता
तदभावाद् अभावश् चेद् आत्माभावे न का प्रमा ॥

1.2.69

तेन तद्भावभावित्वं न भूयो नलिकादिना
संपादिते ऽप्य् एतत् सिद्धेः सो ऽन्य एवेति चेद् न तत् ॥

1.2.70

वायुसामान्यसंसिद्धेस् तत्स्वभावः स नेति चेत्
अत्रापि न प्रमाणं वश् चैतन्योत्पत्तिर् एव चेत् ॥

1.2.71

न तस्याम् एव संदेहात् तवायं केन नेति चेत्
तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् ॥

1.2.72

तद्वैलक्षण्यसंवित्तेः मातृचैतन्यजे ह्य् अयम्
सुते तस्मिन् न दोषः स्यान् न न भावे ऽस्य मातरि ॥

1.2.73

न च संस्वेदजाद्येषु मात्रभावेन तद् भवेत्
प्रदीपज्ञातम् अप्य् अत्र निमित्तत्वान् न बाधकम् ॥

1.2.74

इत्थं न तदुपादानं युज्यते तत् कथंचन
अन्योपादानभावे च तद् एवात्मा प्रसज्यते ॥

1.2.75

न तथाभाविनं हेतुम् अन्तरेणोपजायते
किञ्चिन् नश्यति नैकान्ताद् यथाह व्यासमहर्षिः ॥

1.2.76

नासतो विद्यते भावो नाभावो विद्यते सतः
अभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्वदर्शिभिः ॥

1.2.77

नाभावो भावम् आप्नोति शशशृङ्गे तथागतेः
भावो नाभावम् एतीह दीपश् चेन् न स सर्वथा ॥

1.2.78

एवं चैतन्यवान् आत्मा सिद्धः सततभावतः
परलोक्य् अपि विज्ञेयो युक्तिमार्गानुसारिभिः ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc