भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 1.1

1.1.1

प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया
सत्त्वानाम् अल्पबुद्धीनां शास्त्रवार्त्तासमुच्चयम् ॥

1.1.2

यं श्रुत्वा सर्वशास्त्रेषु प्रायस् तत्त्वविनिश्चयः
जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥

1.1.3

दुःखं पापात् सुखं धर्मात् सर्वशास्त्रेषु संस्थितिः
न कर्तव्यम् अतः पापं कर्तव्यो धर्मसंचयः ॥

1.1.4

हिंसानृतादयः पञ्च तत्त्वाश्रद्धानम् एव च
क्रोधादयश् च चत्वार इति पापस्य हेतवः ॥

1.1.5

विपरीतास्तु धर्मस्य एत एवोदिता बुद्धैः
एतेषु सततं यत्नः सम्यक् कार्यः सुखैषिणा ॥

1.1.6

साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः
आत्मीयग्रहमोक्षश् च धर्महेतुप्रसाधनम् ॥

1.1.7

उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम्
स्थाने विनय इत्येतत् साधुसेवाफलं महत् ॥

1.1.8

मैत्रीं भावयतो नित्यं शुभो भावः प्रजायते
ततो भावोदयाज्जन्तोर् द्वेषाग्निर् उपशाम्यति ॥

1.1.9

अशेषदोषजननी निःशेषगुणघातिनी
आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्त्तते ॥

1.1.10

एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः
तत्त्वविद्धिः समाख्यातः सम्यग् धर्मस्य साधकः ॥

1.1.11

उपादेयश् च संसारे धर्म एव बुद्धैः सदा
विशुद्धो मुक्तये सर्वं यतो ऽन्यद् दुःखकारणम् ॥

1.1.12

अनित्यः प्रियसंयोग इहेर्ष्याशोकवत्सलः
अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् ॥

1.1.13

अनित्याः सम्पदस् तीव्र क्लेशवर्गसमुद्भवाः
अनित्यं जीवितं चेह सर्वभावनिबन्धनम् ॥

1.1.14

पुनर्जन्म पुनर्मृत्युर् हीनादिस्थानसंश्रयः
पुनः पुनश् च यद् अतः सुखम् अत्र न विद्यते ॥

1.1.15

प्रकृत्यसुन्दरं ह्य् एवं संसारे सर्वम् एव यत्
अतो ऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ॥

1.1.16

मुक्त्वा धर्मं जगद् वन्द्यम् अकलङ्कं सनातनम्
परार्थसाधकं धीरैः सेवितं शीलशालिभिः ॥

1.1.17

आह तत्रापि नो युक्ता यदि सम्यग् निरूप्यते
धर्मस्यापि शुभो यस्माद् बन्ध एव फलं मतम् ॥

1.1.18

न चायसस्य बन्धस्य तदा हेममयस्य च
फले कश्चिद् विशेषो ऽस्ति पारतन्त्र्याविशेषतः ॥

1.1.19

तस्माद् अधर्मवत् त्वाज्यो धर्मो ऽप्य् एवं मुमुक्षुभिः
धर्माधर्मक्षयान्म् उक्तिर् मुनिभिर् वर्णिता यतः ॥

1.1.20

उच्यते एवम् एवैतत् किन्तु धर्मो द्विधा मतः
संज्ञानयोग एवैकस् तथान्यः पुण्यलक्षणः ॥

1.1.21

ज्ञानयोगस् तपः शुद्धम् आशंसादोषवर्जितम्
अभ्यासातिशयाद् उक्तं तद् विमुक्तेः प्रसाधनम् ॥

1.1.22

धर्मस् तदपि चेत् सत्यं किं न बन्धफलः स यत्
आशंसा वर्जितो ऽन्यो ऽपि किं नैवं चेद् न यत् तथा ॥

1.1.23

भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः
सम्यग्मिथ्यादिरूपश् च गतिस् तन्त्रान्तरेष्व् अपि ॥

1.1.24

तम् अन्तरेण तु तयोः क्षयः केन प्रसाध्यते
सदा स्यान् न कदाचिद् वा यद्य् अहेतुक एव सः ॥

1.1.25

तस्माद् अवश्यम् एष्टव्यः कश्चिद् हेतुस् तयोः क्षयें
स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः ॥

1.1.26

धर्माधर्मक्षयान् मुक्तिर् यच् चोक्तं पुण्यलक्षणम्
हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् ॥

1.1.27

अतस् तत्रैव युक्तास्था यदि सम्यग् निरूप्यते
संसारे सर्वम् एवान्यत् दर्शितं दुःखकारणम् ॥

1.1.28

तस्माच् च जायते मुक्तिर् यथा मृत्यादिवर्जिता
तथोपरिष्टाद् वक्ष्यामः सम्यक्शास्त्रानुसारतः ॥

1.1.29

इदानीं तु समासेन शास्त्रसम्यक्त्वम् उच्यते
कुवादियुक्त्यपव्याख्या निरासेनाविरोधतः ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc