भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 9

9.1

अथात्र हृदयानि भवन्ति ।
वज्र वज्र ॥
शुद्ध शुद्ध ॥
सत्व सत्व ॥
बुद्ध बुद्ध ॥
सर्वसिद्धिज्ञाननिष्पत्तयः ॥
अथ रहस्याधरणक्षमो भवति ॥
तस्य प्रथमं तावच्छपथहृदयं भूयात् ।
ओं वज्रसत्त्वः स्वयं ते ऽद्य हृदयं समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद्यदि भूयादिदन्नयम् ॥
तत एवं वदेन् "न त्वयेदं शपथहृदयमतिक्रमितव्यम्; मा ते विषमापरिहारेणाकालमरणं स्याद्, अनेनैव कायेन नरकपतनम्" ।
ततो रहस्यमुद्राज्ञानं शिक्षयेत् ।
वज्रावेशं समुत्पाद्य तालं दद्यात् समाहितः ।
वज्रांजलितलैः सूक्ष्मं पर्वतो ऽपि वशं नयेत्

9.2

वज्रतालमुद्रा ॥
वज्रावेशविधिं योज्य वज्रबन्धतलैः हनेत् ।
सूक्ष्मतालप्रयोगेण पर्वते ऽपि समाविशेत्

9.3

तथैवावेशविधिना वज्रबन्धप्रसारिते ।
अग्रांगुलिसमास्फोटाद्धनेत् कुलशतं क्षणात्

9.4

सूक्ष्मावेशविधेर्योगात्सर्वागुलिसमाहितम् ।
वज्रबन्धविनिर्मुक्तं सर्वदुःखहरं परम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc