भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 10

10.1

अथासां गुह्यसाधनं भवति ।
भगेन प्रविशेत् कायं स्त्रियायाः पुरुषस्य वा ।
प्रविष्ट्वा मनसा सर्वं तस्य कार्यं समं स्फरेद् ॥ इति ।
तत्रैतानि तालहृदयानि भवन्ति ।
वज्र वश ॥
वज्र विश ॥
वज्र हन ॥
वज्र हर ॥
ततो हृदयं दत्त्वा स्वकुलदेवताचतुर्मुद्राज्ञानं शिक्षयेत् । अनेन विधिना वक्तव्यम् । "न कस्यचित् त्वयान्यस्यैषां मुद्राणामकोविदस्य एकतरापि मुद्रा दर्शयितव्या । तत्कस्य हे तोः । तथा हि ते सत्वा अदृष्टमहामण्डलाः सन्तो मुद्राबन्धं प्रयोजयन्ति तदा तेषान्न तथा सिद्धिर्भविष्यति । ततस्ते विचिकित्सा प्राप्ता विषमापरिहारेण शीघ्रमेव कालं कृत्वावीचीमहानरके पतन्तः । तव चापायगमनं स्याद्" इति ॥
अथ सर्वतथागतसत्वसाधनमहामुद्राज्ञानं भवति ।
चित्तज्ञानात्समारभ्य वज्रसूर्यं तु भावयेत् ।
बुद्धबिम्बं स्वमात्मानं वज्रधातुं प्रवर्तयन्

10.2

अन्या सिद्धिमात्रस्तु ज्ञानमायुर्बलं वर्षः ।
प्राप्नोति सर्वगामित्वं बुद्धत्वमपि न दुर्लभम्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc