भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 8

8.1

अथ हृदयानि भवन्ति ।
वज्रधर ॥
रत्नधर ॥
पद्मधर ॥
कर्मधर ॥
ततः सर्वतथागतोत्तमसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।
सर्ववज्रसमाधिन्तु संविष्ट्याकाशधातुषु ।
यावदिच्छति वज्रात्मा तावदुत्पतति क्षणात्

8.2

सर्वशुद्धसमाधिन्तु भावयन्नुत्तमांस्तथा ।
पंचाभिज्ञानवाप्नोति शीघ्रं ज्ञानप्रसाधक

8.3

वज्रसत्त्वमयं सर्व आकाशमिति संस्फरन् ।
दृढानुस्मृतिमाञ्छिघ्रं भवेद्वज्रधरः स्वयम्

8.4

बुद्धबिम्बमयं सर्वमधिमुच्य खधातुषु ।
सर्वबुद्धसमाधिषु बुद्धत्वाय भविष्यति ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc