भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 85

85.1

मुद्र
अथात्र गुह्यमण्डले सर्वसिद्धिविधिविस्तरं कृत्वा, वज्रहुंकारगुह्यमुद्राज्ञानमुदीरयेत् ।
प्रविश्य मण्डलमिदं त्रिलोकविजयाङ्गुलीं ।
साधये तु भगे बिध्वा सर्वकर्म सुसिध्यति ॥
अथास्य साधनहृदयं भवति हुं वज्रसमय कृत ॥
ततो वज्रहुंकारहस्यसाधनमुद्राज्ञानं शिक्षयेत् ।
प्रविष्ट्वा मण्डलं सम्यग् महामुद्राग्रसंस्थितः ।
संवसन् वज्रहुंकारः सर्वकर्मकरो भवेद् ॥ इति ॥
तत्रास्याः साधनहृदयं भवति हुं वज्रसमय हुं ॥
ततो यथावन् मुद्राबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धयः संभवन्तीति ॥
यथा मण्डले एवं पटादिषु लिखितानां सर्वप्रतिमास्वपि सामान्या सिद्धिरिति ।
अथ वज्रपाणिः सर्वतथागतानाहूयैवमाह । "अधितिष्ठत भगवन्तः सर्वतथागता ममे[दं कुलं ये च] सर्वसत्वा यथाकामकरणीयतया सर्वसिद्धीः प्राप्नुयुर्" इति ॥
अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्यास्य त्रिलोकविजयकल्पस्याधिष्ठानायेदमूचुः ।
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥
सर्वतथागतवज्रसमयान्महाकल्पराजान् महाकल्पविधिविस्तरः समाप्तः ॥
छप्तेर् 11 त्रिलोकचक्र-मह-मन्दल-विधि-विस्तर
अथ भगवन्तः सर्वतथागताः पुनरपि समाजमापद्य जानन्नेव वज्रपाणिं महाबोधिसत्वमेवमाहुः । "प्रतिपद्यस्व वत्स सर्वतथागताज्ञाकारितयै इमं महेश्वरकायमतः स्वपादतालात् मोक्षुम्!" इति । अथ भगवां वज्रपाणिस्तांस्तथागतानेवमाह । "अहं भगवद्भिः सर्वदुष्टदमकः क्रोध इत्यभिषिक्तः । तन्मयायं व्यापादितः, तत्कथमस्य मोक्षामी?" ति ।
अथ सर्वतथागता महेश्वरस्य सर्वत्रिलोकाधिपतेः शरीरस्य जीवितसंजननहेतोरिदं मृतविज्ञानाकर्षणहृदयं स्वहृदये[भ्यो निश्चरन्ति ।] ओं वज्रसत्व हूं ज्जः ॥
अथास्य मुद्राबन्धो भवति ।
गुह्याङ्कुशी दृढीकृत्य समान्त्यासु प्रसारिता ।
मृतस्य मूर्ध्नि सन्धाय [पुनर्जीवितं प्राप्स्यत ॥ इति ॥]
अथास्मिन् विनिःसृतमात्रे स भगवान् [भस्मेश्वरनिर्घोषस्] तथागतो भस्मच्छत्राया लोकधातोर् [आगम्य, तस्य] महेश्वर[स्य काये प्रविष्ट्वा, इदमुदानमुदानयामास ।]
अहो हि सर्वबुद्धानां बुद्धाज्ञानमनुत्तरं ।
यन्मृतो ऽपि हि कायो ऽयं जीवधातुत्वमागत ॥ इति ॥
[अथ वज्रपाणिर्] महाबोधिसत्व इदं पादोच्चारन्नाम हृदयमुदाजहार ओं वज्र मुः ॥
अथास्य मुद्राबन्धो भवति ।
वज्रक्रोधाङ्गुली[मुत्थापयित्वाग्रासङ्गं स्थिते ।] परिवर्त्य[द्वयोर्वज्रयोरधस्तात्समुद्धरेद् ॥ इति ॥]
अथास्मिन् भाषितमात्रे महावज्रधरपादमूलान् महादेवो [मुक्तयित्वा पुनः संजीवीकृतः ।] अथ महेश्वर[कायं तेन तथागतेन सं]जीवमधिष्ठाय, स्वयौवराज्यतायामत्रैव लोकधातौ सर्वसत्व[हितार्थञ्च दुष्ट]विनयार्थं च प्रतिष्ठापितवानिति ॥
अथ ततो वज्रपाणि चरणतलादिमां चन्द्रपादान्नाम सर्वतथागतबोधिचित्तमुद्रां [विनिःसृतः ।] ओं चन्द्रोत्तरे समन्तभद्रकिरणी महावज्रिणि हूं ॥
अथास्य मुद्राबन्धो भवति ।
वज्रबन्धं दृढीकृत्य कनिष्ठाङ्गुष्ठ[समोत्था ।
समोत्थित्वा सुसारिता चन्द्रप्रभेति] कीर्तिता ॥
अथास्यां विनिःसृतमात्रायां तत एव पादतलाच् चन्द्रोत्तर एव तथागतो [निश्चचार, तस्य महेश्वरस्य शिरे वज्रपाणि पादावक्रान्ते तदर्धचन्द्रमूर्धनभिषिक्तो, वज्रपाणेर्वामपार्श्वे स्थितः । ततः] सर्वतथागतै[र्वज्रपाणेर्मित्रस्य पाणौ] वज्रशूलं दत्वा, वज्रविद्योत्तमो वज्रविद्योत्तम इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रविद्योत्तमो बोधिसत्त्वो [महासत्त्वश्च] तेन वज्रशूलेन चक्रपरिवर्तनगत्या नृत्योपहारपूजां कुर्वन्निदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां बोधिचित्तमनुत्तरं ।
यत्पादाग्रस्पर्शेनापि बुद्धत्वं प्राप्यते मया ॥ इति ॥
अथ वज्रपाणिर्महाबोधिसत्वः, ततो वज्रक्रोधसमाधेर्व्युत्थाय, भगवन्तमे[तां वाचमुवाच] । "अहं भगवं सर्वतथागतैर्वज्रं पाणिभ्यां दत्वा वज्रपाणित्वेनाभिषिक्तः ॥ तदेषां देवादीनां बाह्यवज्रकुलानामस्मिं त्रिलोकविजयमहामण्डले स्थानविनियोगङ्करिष्यामि । येन ते सत्वा अवैवर्तिका भविष्यन्ति अनुत्तरायां सम्यक्संबोधाव्" इति ॥
अथ भग[वान् वैरोचनस्] तथागतो ऽर्हन् सम्यक्संबुद्ध इदं सर्वतथागतोष्णीषमुदाजहार ओं वज्रसत्वोष्णीष हुं फट् ॥
अथास्मिन् भाषितमात्रे सर्वतथागतोष्णी[षेम्यो विनिःसृतो भगवद्वज्रपाणिविग्रहः, नाना]वर्णरश्मयो भूत्वा, सर्वलोकधातवो ऽवभास्य, पुनरपि भगवतो वज्रपाणेर्मूधम् [अनुपरिवेष्टिताः, सर्वतथागतोष्णीषतेजोराशिं भूत्वा] स्थितः । अथ ततस्तेजोराशित इदं सर्वतथागतोष्णीषं निश्चचार । ओं नमस्सर्वतथाग[तोष्णीष] तेजोराशि अनवलोकितमूर्ध हूं ज्वाल धक विधक दर विदर हुं फट् ॥
अथ वज्रपाणिर्बोधिसत्वो महासत्व इदं स्वविद्योत्तममुदा[जहार]ओं निसुंभ वज्र हुं फट् ॥
ततः पुनरपि वज्रपाणिः स्वहृदयादिदं हृदयमुदाजहार ओं ट्टक्कि ज्जः ॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं वज्र रत्नोत्तम ज्वालय हुं फट् ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं स्वभावशुद्ध वज्रपद्म शोधय सर्वान् विद्योत्तम हुं फट् ॥
अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं वज्रकर्मोत्तम वज्रधर समयमनुस्मर सुंभनिसुंभाकर्षय प्रवेशयावेशय बन्धय समयं ग्रहय सर्वकर्माणि मे कुरु महासत्व हुं फट् ॥
अथ वज्रविद्योत्तमो बोधिसत्वो महासत्व इदं स्वहृदयं भगवतो वज्रपाणेः पादवन्दनीयं निर्यातयामास ओं सुंभ निसुंभ वज्रविद्योत्तम हुं फट् ॥
अथ क्रोधवज्रो विद्याराजो भगवतश्चरणयोर्निपत्येद स्वहृदयमदात् हुं वज्रशूल ॥
अथ मायावज्रो विद्याराजेदं स्वहृदयमभाषत् ओं वज्रमाय विदर्शय सर्व हुं फट् ॥
अथ वज्रघण्टो विद्याराजः स्वहृदयमदात् ओं वज्रघण्ट रण रण हुं फट् ॥
अथ मौनवज्रः स्वहृदयमदात् ओं वज्रमौन महाव्रत हुं फट् ॥
अथ वज्रायुधः स्वहृदयमदात् ओं वज्रायुध दामक हुं फट् ॥
विद्याराजनकाः ॥
अथ वज्रकुण्डलिर्वज्रक्रोधो भगवते वज्रपाणये इदं स्वहृदयं पादवन्दनीयं निर्यातयामास । ओं वज्रकुण्डलि महावज्रक्रोध गुह्ण हन दह पच विध्वंसय । वज्रेण मूर्धानं स्फालय भिन्द हृदयं वज्रक्रोध हुं फट् ॥
अथ वज्रप्रभो वज्रक्रोध इदं स्वहृदयमदात् । ओं वज्रप्रभ मारय सौम्यक्रोध हुं फट् ॥
अथ वज्रदण्डो वज्रक्रोधः स्वहृदयमदात् । ओं वज्रदण्ड तनुय सर्वदुष्टान् महाक्रोध हुं फट् ॥

अथ वज्रपिङ्गलो वज्रक्रोध इदं स्वहृदयमदात् । ओं वज्रपिङ्गल भीषय सर्वदुष्टान् भीमक्रोध हुं फट् ॥
वज्रक्रोधाः ॥
अथ वज्रशौण्डो गणपतिर्भगवते वज्रपाणये इदं हृदयन्निर्यातयति स्म । ओं वज्रशौण्ड महागणपति रक्ष सर्वदुष्टेभ्यो वज्रधराज्ञां पालय हुं फट् ।
अथ वज्रमाल इदं स्वहृदयमदात् । ओं वज्रमाल गणपतये मालयाकर्षय प्रवेशयावेशय बन्धय वशीकुरु मारय हुं फट् ॥
अथ वज्रवशी स्वहृदयमदात् । ओं वज्रवशी महागणपते वशीकुरु हुं फट् ॥
अथ विजयवज्रो गणपतिः स्वहृदयमदात् । ओं वज्रविजय विजयं कुरु महागणपति हुं फट् ॥
गणप[तयः ॥]
अथ वज्रमुसलो वज्रदूत इदं स्वहृदयं वज्रपाणये निर्यातयामास । ओं वज्रमुसल कृट्ट कुट्ट सर्वदुष्टान् वज्रदूतहुं फट् ॥
[अथ वज्रा]निलो दूतः स्वहृदयमदात् । ओं वज्रानिल महावेगानय सर्वदुष्टान् हुं फट् ॥
अथ वज्रानलो दूतः स्वहृदयमदात् । ओं वज्रानल महादूत ज्वालय सर्व भस्मीकुरु सर्वदुष्टान् हुं फट् ॥
अथ वज्रभैरवो दूतः स्वहृदयमदात् । ओं वज्रभैरव वज्रदूत भक्षय सर्वदुष्टान् महायक्ष हुं फट् ॥
दूताः ॥
अथ वज्राङ्कुशो वज्रचेट इदं स्वहृदयं भगवते वज्रपाणये निर्यातयामास । ओं वज्रङ्कुशाकर्षय सर्व महाचेट हुं फट् ॥
अथ वज्रकालः स्वहृदयमदात् । ओं वज्रकाल महामृत्युमुत्पादय हुं फट् ॥
अथ वज्रविनायकः स्वहृदयमदात् । ओं वज्रविनायकास्य विघ्नं कुरु हुं फट् ॥
अथ नागवज्र इदं स्वहृदयं भगवते वज्रापाणये पादवन्दनीयं निर्यतयामास । ओं नागवज्रानय सर्वधनधान्यहिरण्यसुवर्णमणिमुक्तालङ्कारादीनि सर्वोपकरणानि वज्रधर समयमनुस्मरकड्ढ गृह्ण बन्ध हर हर प्राणान् महाचेट हुं फट् ॥
चेटाः ॥
अथ वज्रपाणिर्महाबोधिसत्व इदं सर्ववज्रकुलाकर्षणसमयमुदाजहार ओं वज्राङ्कुशाकर्षय हुं ॥
ततः प्रवेशनसमयमुदाजहार हुं वज्रपाशाकड्ढ हुं ॥
ततः समयबन्धमुदाजहार हुं वज्रस्फोट वं ॥
ततः कर्महृदयमुदाजहार ओं वज्रकर्म साधय कृत् ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिरिदं सर्ववज्रकुलमहामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
धर्मचक्रप्रतीकाशं सूत्रये सर्वमण्डलं ॥
तत्रेदं सूत्रणहृदयं भवति ओं वज्रसूत्राकर्षय सर्वमण्डलान् हुं ॥
मण्डलस्य तु मध्ये वै विध्वा खदिरकीलकं ।
ततस्तु सूत्रं द्विगुणं कृत्वा तेन प्रसूत्रयेत् ॥
तत्रेदं कीलकहृदयं । ओं वज्रकील कीलय सर्वविध्नान् बन्धय हूं फट् ॥
चतुःसूत्रसमायुक्तं सूत्रयेच्चक्रमण्डलं ।
बाह्यतस्तस्य निःक्रम्य द्विगुणं तु तथैव च

85.2

तस्यापि त्रिगुणङ्कुर्यात् बाह्यमण्डलसूत्रणं ।
विदिशाश्चारयोगेन कोणरेखास्तु सूत्रयेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc