भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 84

84.1

इति ॥
इइ.6 एकमुद्रमन्दल
अ[थ वज्रपा]णिर्महाबोधिसत्वः पुनरपीमं स्ववज्रसमयक्रोधसमयमभाषत् हुं ॥
देलिनेअतिओन् ओf थे मन्दल
अथास्य मण्डलं भवति ।
अथातः संप्रवक्ष्यामि गुह्यमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रहुंकरसंज्ञितं

84.2

महामण्डलयोगेन बाह्यमण्डलमालिखेत् ।
तस्य मध्ये लिखेत्सम्यग्वज्रिणं चन्द्रमण्डले

84.3

सवज्र वज्रहुंकारमहामुद्राकरग्रहं ।
प्रत्यालीढसुसंस्थानं यथावद् वर्णरूपिणम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc