भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 86

86.1

सूत्रणविधिः ।
ततस्तु सूत्रणं तत्तु रङ्गैः शुद्धैस्तु पूरयेत् ।
वामवज्रमहामुष्ट्या प्राग्रेखां तु यथासुखं ॥
तत्रेदं रङ्गहृदयं । ओं वज्ररङ्ग समय हूं ॥
ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः ।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं ॥
तत्रेदं द्वारोद्घाटनहृदयं । ओं वज्रोद्घाटनसमय प्रविश शीघ्रं स्मर वज्रसमय हुं फट् ॥
सौर्वर्णराजते वापि मृण्मये वा सुचित्रिते ।
इष्टके तु चतुरश्रे तु बुद्धबिम्बं निवेशयेत् ॥
तत्रेदं सर्वबुद्धहृदयं[भ]वति । ओं सर्वविद् ॥
बुद्धस्य सर्वतः कुर्यन्महासत्वचतुष्टयं ।
त्रिलोकविजयं कुर्वन् वज्रापाणिं पुरःस्थितं ॥
तत्रैतानि महासत्वचतुष्टयहृदयानि भवन्ति ।
ओं सुंभ निसुंभ हुं गृण्ह गृण्ह हुं गृण्ह प्य हुं आनय हो भगवन् वज्र हुं फट्

86.2

ओं वज्रभृकुटि क्रोधानय सर्वरत्नान् हीः फट्

86.3

ओं वज्रदृष्टि क्रोधदृष्ट्या मारय हुं फट्

86.4

ओं वज्रविश्व क्रोध कुरु सर्वं विश्वरूपतया साधय हूं फट्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc