भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 7

7.1

तत्रैतानि हृदयानि भवन्ति ।
वज्रजल ॥
वज्ररूप ॥
वज्राकाश ॥
वज्रमहम् ॥
ततो वज्रविद्याधरसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।
चन्द्रबिम्बं समालिख्य नमस्यूर्ध्व समारुहेत् ।
पाणौ प्रभावयं वज्रं वज्रविद्याधरो भवेत्

7.2

चन्द्रबिम्बं समारुह्य वज्ररत्नं प्रभावयेत् ।
यावदिच्छति शुद्धात्मा तावदुत्पतति क्षणात्

7.3

चन्द्रबिम्बाभिरूढस्तु वज्रपद्मं करे स्थितम् ।
भावयन् वज्रनेत्रं तु दद्याद् विद्याधृतां पदम्

7.4

चन्द्रमण्डलमध्यस्थः कर्मवज्रां तु भावयेत् ।
वज्रविश्वधराच्छीघ्रं सर्वैविद्याधरो भवेद ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc