भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 6

6.1

तत्रैतानि [हृदयानि भवन्ति] ॥
वज्रनिधि ॥
रन्त निधि ॥
धर्म निधि ॥
कर्मनिधि ॥
ततो वज्रऋद्धिसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।
वज्रावेशे समुत्पन्ने वज्रबिम्बमयं जलम् ।
भावय[ञ्छीघ्रं सि]द्धस्तु जलस्योपरि चंक्रमेत्

6.2

तथैवावेशमुत्पद्य यद् रूपं स्वयमात्मनः ।
भावयं भवते तत्तु बुद्धरूपमपि स्वयम्

6.3

तथैवाविष्टमात्मानमाकाशो ऽहमिति स्वयम् ।
भावयन् यावदिच्छेत तावददृश्यतां ब्रजेत्

6.4

वज्राविष्टः स्वयं भत्वा वज्रो ऽहमिति भावयन् ।
यावदारुहते स्थानन्तावदाकाशगो भवेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc