सर्वतथागततत्त्वसंग्रह · अध्याय 68
इति ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र वज्रकुलसूक्ष्मज्ञानमण्डले यथावद् विधिविस्तरो भवति ।
तत्रादित एव तावत्प्रवेश्य ब्रूयाद्"अद्य त्वं सर्वतथागतवज्रक्रोधतायां वज्रपाणिना भगवताभिषि[क्तं] तत्साधु; प्रतिपद्यस्वाशेषानवशेषसत्वधातुपरित्राण यावत् सर्वतथागतहितसुखोत्तमसिद्ध्यवाप्तिफलहेतोर्वज्रक्रोधे[ण सर्व]सत्वानपि संशोधननिमित्तं मारयितुं; कः पुनर्वादः सर्वदुष्टान्" इति । इदमुक्त्वा मुखबन्धं मुञ्चेत् । ततः सर्वमण्डलं दर्शयित्वा, [वज्रं] यथावत्पाणौ दत्वा, ततो वज्रक्रोधसूक्ष्मज्ञानानि शिक्षयेत् ।
सूक्ष्मवज्रं दृढीकृत्य वज्रहुंकारयोगतः ।
हुंकारं योजयेद्यस्य तस्य नश्यति जीवितं
सूक्ष्मवज्रं दृढीकृत्य स्फरयेत यथाविधि ।
यावत्तः स्फरते तं तु तावन्नश्यत्यसौ रिपुः
सूक्ष्मवज्रविधिं योज्य वज्रहुंकारयोगतः ।
स्फरयेत् क्रोधवान् यावत् तावत् सत्वान् विनाशयेत्
तथैव संहरेत् तत्तु यावदिच्छेत योगवान् ।
सर्वं वापि हि निःशेष पुनरदयात् तु जीवितम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0