सर्वतथागततत्त्वसंग्रह · अध्याय 69
॥ इति ॥
तत्रैषां हृदयानि भवन्ति ।
हुं ॥
हुंनाशय वज्र ॥
हुं विनाशय सर्वान् वज्र ॥
ओं सूक्ष्मवज्र प्रत्यानय शीघ्रं हुं ॥
वज्रं तु यस्य सत्वस्य सहभूत्वा महादृढं ।
मैत्रीस्फरणतायोगात्स्फरन् वैरेण नाशयेत्
वैरस्फरणतायोगात् कारुण्यं यस्य कस्यचित् ।
तेन कारुण्ययोगेन सर्वदुष्टान् स नाशयेत्
अधर्मा यदि वा धर्माः प्रकृत्या तु प्रभास्वराः ।
एवं तु भावयं सत्वां हुंकारेण तु नाशयेत्
दुर्दुरूटा हि ये सत्वा बुद्धबोधावभाजनाः ।
तेषां तु संशोधनार्थाय हुंकारेण तु नाशयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0