सर्वतथागततत्त्वसंग्रह · अध्याय 67
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रापाणिः पुनरपीदं वज्रकुलसूक्ष्मज्ञानसमयमण्डलमुदाजहार ।
अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं क्रोधज्ञानमिति स्मृतं
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये लिखेद्बुद्धं ज्ञानवज्रस्य मध्यगं
बुद्धस्य सर्वपार्श्वेषु मुद्रास्ता एव संलिखेत् ।
वज्रवेगेन निष्क्रम्य मण्डलानां चतुष्टये
त्रिलोकविजयाभ्यांस्तु यथावत् तु निवेशयेत् ।
तेषां तु सर्वपार्श्वेभ्यो वज्रक्रोधान् यथाविधिर्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0