सर्वतथागततत्त्वसंग्रह · अध्याय 64
तत्रैतानि हृदयानि भवन्ति ।
हुं वज्रस्फोट ठः ॥
हुं मुखवज्र ठः ॥
हुं वज्रनेत्र ठः ॥
हुं मनोवज्र ठः ॥
ततो महावज्रकुलगुह्यमुद्राज्ञानं शिक्षयेत् । तत्र प्रथमं तावन्महामुद्राबन्धो भवति ।
कनिष्ठाङ्कुशबन्धेन वज्रक्रोधान्निवेशयेत् ।
वामत्रिशूलपृष्ठे तु त्रिलोकविजया स्मृता
सुप्रसारितवामाग्र्या तथैवोत्तानवारिजा ।
परिवर्त्य तथा चैव वामवज्रा प्रतिष्ठिते ॥ ति
वज्रबन्धन्तले कृत्वा च्छादयेत्क्रुद्धमानसः ।
गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिरिः स्मृता
कुञ्चिताग्र्याङ्कुशी चैव तर्जनीमुखवज्रिणी ।
साधुकारा तथाग्र्याभ्यां अग्रवज्रा मुखस्थिता
हृदये सूर्यसंदर्शा समाग्र्या मूर्ध्नि संस्थिता ।
परिवर्त्य स्मितस्था तु समाग्र्या कुड्मला तथा
खङ्गमुष्टिग्रहद्वाभ्यामग्र्या चक्रा निबन्धनः ।
समाग्र्या मुखतोद्धान्ता तर्जनी संप्रसारिता
तर्जनी गले बन्धा तु ताभ्यां दंष्ट्रा मुखस्थिता ।
गाढमुष्टिनिबन्धाश्च महामुद्राः प्रकल्पिता
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0