भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 65

65.1

इति ॥
अथ वज्रकुलगुह्यसमयमुद्राबन्धो भवति ।
गुह्यमुष्टिसमुद्भूताः समयाग्र्यः प्रकीर्तिताः ।
तासां बन्धं प्रवक्ष्यामि वज्र[बन्ध]मनुत्तरं

65.2

हृदिस्था वलिता पार्श्वे वाणाकर्षा तु वामतः ।
हृदयाच्च समुद्धान्ता भृकुटिः परिवर्त्य वै

65.3

सूर्यमण्डलसंदर्शा मूर्ध्नि बाहुप्रसारिता ।
परिवर्त्य स्मितस्था तु मुखमध्यसुसंस्थिता

65.4

कोशग्रप्रहराकारा चक्रनिक्षेपदर्शिका ।
मुखतश्च समुद्धान्ता मूर्ध्नि कायाग्रमण्डला

65.5

स्कन्धयोर्हृदि पार्श्वाभ्यां वज्ररक्षाकृतिस्तथा ।
दंष्ट्रासंस्थानयोगाच्च गाढमुष्टिनिपीडिता

65.6

बाह्यमण्डलमुद्रास्तु बन्धेच्चिह्नानुसारतः ।
समया वज्रबन्धेन तथास्या वज्रमुष्टिना

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc