भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 63

63.1

तत्रैतानि हृदयानि भवन्ति ।
नृत्य वज्र ॥
रक्ष वज्र ॥
खाद वज्र ॥
बन्ध वज्र ॥
ततः क्रोधगुह्यमुद्राज्ञानं शिक्षयेत् ।
वज्रं गृह्य तु पाणिभ्यां स्फोटयेत् क्रुद्धमानसः ।
यस्य नाम्ना तु हृदयं स्फुटेत् तस्य जनस्य हि

63.2

अधोष्ठं दशनैर्गृह्य यस्य नाम्ना तु पीडयेत् ।
शिरस्तस्य स्फुटेच्छीघ्रं यद्याज्ञां समतिक्रमेत्

63.3

वज्रक्रोधमहादृष्ट्या चक्षुषी तु निमीलयेत् ।
निरीक्षत् यस्य नाम्ना तु स्फुटेत् एतस्य चाक्षिणी

63.4

वज्रक्रोधसमापत्त्या हृदयं स्वयमात्मना ।
पीडयेद् वज्रबन्धेन तस्य चित्तं परिस्फुटेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc