सर्वतथागततत्त्वसंग्रह · अध्याय 62
तत्रैतान्युपमुद्राहृदयानि भवन्ति ॥
कामय वज्र ॥
च्छिन्दय वज्र ॥
भ्रामय वज्र ॥
ब्रूहि वज्र ॥
वज्रक्रोधाङ्गुली सम्यगुत्तानमुखसन्धिता ।
परिवर्त्य तथोष्णीषे तर्जनी मुखसंस्थिता
वज्रकर्मप्रयोगेण सर्वकार्याग्रमण्डलं ।
दर्शयन् नृत्यविधिना हृदये प्रतिशामयेत्
तथैव नृत्यविधिना वज्ररक्षां तु बन्धयेत् ।
वज्रदंष्ट्रे समाधाय वज्रमुष्ट्या तु पीडयेत्
अनेन पूजाविधिना सर्वकर्मक्षमो भवेत् ।
कृत्वा चतुर्विधां पूजां मुद्रां मुञ्चेद् यथाविधिर् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0