ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 61
61.1
तत्रैतानि प्रतिमुद्राहृदयानि भवन्ति ।
आहि वज्र ॥
ज्वालय वज्र ॥
देहि वज्र ॥
हस हस वज्र ॥
तथैव नृत्यं मुक्त्वा तु समकुड्मलसन्धिते ।
अग्राङ्गुली हृदि स्थाप्य नमेदाशयकंपितैः
61.2
तथैव नृत्यं छिन्देद् वै वज्रकोशेन नाशकान् ।
अलातचक्रभ्रमया भ्रामयेच्चक्रमण्डलन्
61.3
गायन् वै वज्रवाचा तु पूजयेद् वज्रपाणिनं ।
अनेन पूजाविधिना सर्व भवति शाश्वतं
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0