भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 56

56.1

सर्वमुद्राविधिः ॥
अथात्र त्रिलोकविजयम[हामण्डल]साधारणमुद्राबन्धो भवति ।
त्रिलोकविजया मुद्रा वज्राग्रसमयस्य तु ।
वज्रहुंकारमन्त्रस्य सर्वसिद्धिप्रदा क्षणात्

56.2

कनिष्ठाग्र्याङ्कुशैर्बन्धेद्वज्रौ द्वावधरोत्तरौ ।
समयाङ्कुशमुद्रेयं सर्वमाकर्षयेत्क्षणात्

56.3

सर्वविद्योत्तमानां तु त्रिलोकविजया स्मृता ।
[घातनी चैव] सर्वस्य सर्वकर्मकरी तथा

56.4

द्विवज्राग्र्याङ्गुली सम्यक्सन्धाय सुसमाहितः ।
उत्थापयेन्मृतं सर्व वज्रोत्तिष्ठेति संज्ञिता

56.5

द्विवज्राग्र्याङ्गुली सम्यक् वज्रबन्धेन बन्धयेत् ।
परिवर्त्य स्थापेन्मूर्ध्नि आयुरारोग्यवर्धनी

56.6

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता ।
तर्जनी दृढं संकोचा वलिता पादकर्षणी

56.7

॥
त्रिलोकविजयां बध्वा यस्य बिम्बं समाक्रमेत् ।
वामपादेन तं सत्वं मासादर्धेन सिद्ध्यति

56.8

वज्रमुद्राद्विकं बध्वा ताडयेत परस्परं ।
यस्य वै रात्वकायं तु समाविष्टस्तु ताडयेत्

56.9

वज्रमुद्राद्विकं बध्वा कवचं स्वं परस्य वा ।
ग्रन्थनन् तर्जनीभ्यां तु रक्षा भवती शाश्वती

56.10

वज्रबन्धं तले कृत्वाच्छादयेत्क्रुद्धमानसः ।
गाढमङ्गुष्ठ [वज्रेण] सिद्ध्येद्वज्रकुलं महत्

56.11

सत्ववज्रं दृढीकृत्य द्व्यङ्गुष्ठग्रस्तमध्यमे ।
कनिष्ठा वज्रमुखतो तीक्ष्ण[आन्तु समय]ग्रहां

56.12

वज्रमुद्राद्विकं बध्वा कुञ्चिताग्र्या निबन्धितं ।
वलितोद्वलितं कुर्वन् देवाकर्षणमुत्तमं

56.13

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं ।
सन्धायाङ्गुष्ठयुगलं पीड्य मध्ये ऽन्तरीक्षिणां

56.14

कनिष्ठाङ्गुलिमध्यन्तु वज्रमुद्राद्विकस्य तु ।
पृष्ठतो ऽग्र्याङ्गुलिग्रस्तं परिवर्त्य खचारिणां

56.15

वज्ररक्षां दृढीकृत्य वज्रबन्धं तु पीडयेत् ।
भौमानां समयो ह्येष सर्वकृद् दुरतिक्रमः

56.16

वज्रमुद्राद्विकं बध्वा वामवज्राग्र्यपीडिता ।
अन्त्याङ्गुलिसमास्फोटा पाताताकर्षणी त्वियं

56.17

ग्रन्थितं वज्रबन्धेन दृढन्तर्जनिकाद्वयं ।
मध्यमाङ्गुष्ठवज्रं तु दुष्टमुद्राप्रभञ्जकं

56.18

वज्रमुद्राद्वयं बध्वा हृदि स्थाप्य समाहितः ।
पीडयेत्क्रोधमुष्टिं तु बाह्यमण्डलनाशनी

56.19

वामवज्राङ्गुलिं गृह्य दक्षिणाकुञ्चिताग्र्यया ।
आस्फोटयं सुसंक्रुद्धः सुमेरुमपि पातयेत्

56.20

वामवज्राङ्गुलिं गृह्य दक्षिणाग्र्याङ्कु शेन तु ।
आकर्षयत्सुसंक्रुद्धो ग्रहां सर्वान् वशन्नयेत्

56.21

वज्रबन्धं समाधाय बाहुभ्यां सुदृढं हृदि ।
वज्राग्र्याभ्यां स्वकुक्षौ तु कुशंस्तु हृदयं हृदि

56.22

अ[ग्र्याङ्गु]लिमुखाभ्यां तु पीडयेत्क्रुद्धमानसः ।
अङ्गुष्ठद्वयमूलन्तु ज्वराकर्षणमुत्तमं

56.23

वज्राञ्जलिं दृढीकृत्य तर्जनीद्वय [कुञ्चिता] ।
सुसन्धितसमाङ्गुष्ठयन्त्रिता पापहारिणी

56.24

अग्र्याङ्गु लिद्वयं बध्वा वज्रमुद्राद्विकान्तरात् ।
समुत्क्षिपेत् क्षणादूर्ध्वं पतितोत्क्षे[पकोत्तमं]

56.25

वज्रबन्धं दृढीकृत्य मध्यमामुखसन्धिता ।
चतुरन्त्यमुखासङ्गात् पापं स्फोटयति क्षणात्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc