भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 57

57.1

अथ सर्वतथागतमण्डल[साधन]मुद्राबन्धो भवति ।
सूत्रयन्मण्डलं पूर्व वज्रमुद्राग्रहेण तु ।
सूत्रं तु धारयेत्पश्चात् यथावत् सूत्रणं स्मृतं

57.2

सुसन्धितसमाग्र्यन्तु वज्रमुद्राद्विकस्य तु ।
कृत्वा तु सर्वरङ्गाणि दीप्तदृष्ट्या समाव्हयेत्

57.3

द्विवज्राग्र्याङ्गुली सम्यक् सन्धायोत्तानतो दृढं ।
विवारयेत संक्रुद्धो द्वारोद्धाटनमुत्तमम् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc