भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 55

55.1

अथ वज्रसमयधर्ममुद्रा भवन्ति ।
हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः ।
ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वन ॥ इति ॥
[अतः परं धर्ममुद्राः समासत एवं भवन्ति ।]
हुं हेः त्रां तं, हि हीः देः हः, धिक् खीः हूं ग्रं, कृ वं दृ अः ।
धर्ममुद्रा सुसिद्धास्तु वज्रक्रोधगणस्य हि ॥ इति ॥
ततो वज्रसमयकर्ममुद्रा भवन्ति ।
क्रोधमुष्टिं द्विधीकृत्य वज्रगर्वादियोगतः ।
कर्ममुद्राः समासेन महवज्रकुले स्मृताः

55.2

यस्या [य]स्यास्तु मुद्राया यद्यत्पार्श्वं च कर्मणः ।
तत्र तत्र तु वै वेष्ट्य तां तां मुद्रां प्रयोजयेत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc