भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 5

5.1

इति ॥
एवं सर्वमण्डलेष वज्राचार्यकर्मेति ॥
इनितिअतिओन् ओf थे दिस्चिप्ले
अथात्र वज्रधातुमहामण्डले वज्रशिष्यप्रवेशादिविधिविस्तरो भवति ॥
तत्र प्रथमं तावत् प्रवेशो भवत्यशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिकार्यकरणतया ।
अत्र महामण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत्कस्माद्धेतोः ।
सन्ति भगवन्तस्तथागताः केचित् सत्त्वा महापापकारिणस्ते इदं वज्रधातुमहामण्डलं दृष्ट्वा प्रविष्टा च सर्वापायविगता भविष्यन्ति ।
सन्ति च भगवन्तः सत्त्वाः सर्वार्थभोजनपानकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादिष्वशक्ताः । तेषामप्यत्रयथाकामकरणीयतया प्रविष्टानां सर्वाशापरिपूरिर्भविष्यति ।
सन्ति भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानाभिसमयधर्मतानवबोधत्वादन्यदेवकुलमण्डलानि प्रविशन्ति, सर्वाशापरिपूरिसंपदभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षापदभयभीता न प्रविशन्ति । तेषामपायमण्डलप्रवेश [पथाभिमुखविहाराणामप्येव] वज्रधातुमहामण्डलप्रवेशो युज्यत सर्वरतिप्रीत्युत्तमसिद्धिसुखसौमनस्यानुभवनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च ।
सन्ति च पुनर्भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर्बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर्भूमिभिर्यन्तः क्लिश्यन्ते । तेषामत्रैव वज्रधातुमहामण्डलप्रवेशमात्रेणैव सर्वतथागतत्वमपि न दुर्लभम्, किमङ्गा पुनरन्या सिद्धिरिति ॥
तत्रादित एव तावत् सर्वतथागतप्रणामचतुष्टयं कारयेत् । तद्यथा ।
सर्वशरीरेण वज्राञ्जलिप्रसारितेन प्रणमेदनेन मन्त्रेण । ओं सर्वतथागतपूजोपस्थानायात्मानन्निर्यातयामि सर्वतथागतवज्रसत्त्वाधितिष्ठस्व मां ॥
तथैव स्थितो वज्राञ्जलिं हृदि कृत्वा ललाटेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाभिषेकायात्मानन्निर्यातयामि सवतथागतवज्ररत्नाभिषिञ्च माम् ॥
ततस्तथैवोत्थाय वज्रांजलिबन्धेन शिरसा मुखेन प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय माम् ॥
ततस्तथैव स्थितो वज्रांजलिं शिरसो ऽवतार्य हृदि कृत्वा मुर्ध्ना प्रणमेदनेन मन्त्रेण ओं सर्वतथागतपूजाकर्मणे आत्मानन्निर्यातयामि सर्वतथातवज्रकर्म कुरु माम् ॥
ततो रक्तवस्त्रोत्तरीयो रक्तपट्टकावच्छादितमुखः सत्त्ववज्रिमुद्रां बन्धयेदनेन हृदयेन समयस्त्वम् ॥
ततो मध्याङ्गुलिद्वयेन मालां ग्रन्थ्या प्रवेशयेदनेन हृदयेन समय हूं ॥
ततः प्रवेश्यैवं वदेत् । "अद्य त्वं सर्वतथागतकुले प्रविष्टः । तदहं ते वज्रज्ञानमुत्पादयिष्यामि, येन ज्ञानेन त्व सर्वतथागतसिद्धिरपि प्राप्स्यसि, किमुतान्याः सिद्धीः । न च त्वयादृष्टमहामण्डलस्य वक्तव्यं, मा ते समयो व्यथेद्" इति । ततः स्वयं वज्राचार्यः सत्त्ववज्रमुद्रामेव मूर्ध्वामुखीं बध्वा वज्रशिष्यस्य मूर्ध्नि स्थास्यैवं वदेत् । "अयं ते समयवज्रो मूर्धानं स्फलयेद्, यदि त्वं कस्यचिद् ब्रूयात् ।"
ततस्तयैव समयमुद्रया उदकं शपथहृदयेन सकृत् परिज्ञाप्य, तस्य शिष्याय पाययेदिति ॥
तत्रेदं शपथहृदयं भवति ।
वज्रसत्त्वः स्वयन्ते ऽद्य हृदये समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद् यदि ब्रूयादिमं नयम् ॥
वज्रोदक ठः ॥
ततः शिष्याय ब्रूयात् । "अद्य प्रभृत्यहन्ते वज्रपाणिर्यत्ते ऽहं ब्रूयामिदं कुरु तत्कर्तव्यं, न च त्वयाहमवमन्तव्यो, मा ते विषमापरिहारेण कालक्रियां कृत्वा नरपतनं स्याद्" इति उक्त्वा, वक्तव्यं ब्रूहि, "सर्वतथागता अधितिष्ठन्तो वज्रसत्त्वो मे आविशतु" ।
ततस्त्वरमाणेन वज्राचार्येण सत्त्ववज्रिमुद्रां बध्वा इदमुच्चारयितव्यम् ।
अयं तत्समयो वज्रं वज्रसत्त्वमिति स्मृतम् ।
आवेशयतु ते ऽद्यैव वज्रज्ञानमनुत्तरम् ।
वज्रावेश अः ।
ततः क्रोधमुष्टिं बध्वा सत्त्ववज्रिमुद्रां स्फोटयेत्, महायानाभिसमयं च वज्रवाचा रुचितोच्चारयेदिति ।
ततः समाविशत्याविष्टमात्रस्य दिव्यं ज्ञानमुत्पद्यते । तेन ज्ञानेन परचित्ताभ्यवबुध्यति । सर्वकार्याणि चातीतानागतवर्तमानानि जानाति । हृदयं चास्य दृढीभवति सर्वतथागतशासने । सर्वदुःखानि च [संप्र]णश्यन्ति । सर्वभयविगतश्च भवति । अवध्यः सर्वसत्त्वेषु । सर्वतथागताश्चाधितिष्ठन्ति । सर्वसिद्धयश्चास्याभिमुखीभवन्ति । अपूर्वाणि चास्याकारणहर्षरतिप्रीतिकराणि सुखान्युत्पद्यन्ते । तैः सुखैः केषाञ्चित्समाधयो निष्पद्यन्ते, केषाञ्चिद धारण्यः, केषाञ्चित सर्वाशापरिपूरयो, यावत्, केषाञ्चित्सर्वतथागतत्वमपि निष्पद्यत इति ।
ततस्तां मुद्रां बध्वा स्वहृदि मोक्षयेदनेन हृदयेन
तिष्ठ वज्र दृढो मे भव, शाश्वतो मे भव, हृदयं मे ऽधितिष्ठ, सर्वसिद्धिञ्च मे प्रयच्छ, हूं ह ह ह ह होः ॥
ततस्तां मालां महामण्डले क्षेपयेदनेन हृदयेन प्रतीच्छ वज्र होः ॥ ततो यत्र पतति सो ऽस्य सिध्यति । ततस्तां मालां गृह्य तस्यैध शिरसि बन्धयेदनेन हदयेन ओं प्रतिगृण्हत्वमिमं सत्वं महाबलः ॥ तया बन्धया तेन महासत्त्वेन प्रतीच्छितो भवति, शीघ्रं चास्य सिध्यति ।
ततस्तथाविष्टस्यैव मुखबन्धं मुंचेदनेन हृदयेन ओं वज्रसत्त्वः स्वयन्ते ऽद्य चक्षूद्धाटनतत्परः उद्धाटयति सर्वाक्षो वज्रचक्षु रनुत्तरम् ॥ हे वज्र पश्य ॥
ततो महामण्डलं यथानुपूर्वतो दर्शयेत् । महामण्डले च दृष्टमात्रे सर्वतथागतैरधिष्ठ्यते, वज्रसत्त्वश्चास्य हृदये तिष्ठति । नानाद्यतीवरश्मिमण्डलदर्शनादीनि प्रातीहार्यविकुर्वितानि पश्यति । सर्वतथागताधिष्ठितत्वात् । कदाचित् भगवान् महावज्रधरः स्वरूपेण दर्शनं ददाति, तथागतो वति । ततः प्रभृति सर्वार्थाः सर्वमनो ऽभिरुचितकार्याणि सर्वसिद्धिर, यावद्, वज्रधरत्वमपि तथागतत्वं वेति ।
ततो महामण्डलं दर्शयित्वा वज्राधिष्ठितकलशाद् गन्धोदकेनाभिषिंचेदनेन हृदयेन वज्राभिषिञ्च ॥
ततस्त्वेकतमां मुद्रां मालां वध्वा स्वचिन्हं पाणौ प्रतिष्ठाप्यैवं वदेत् ।
अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः ।
इदन्ते सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥
ओं वज्राधिपति त्वामभिषिंचामि तिष्ठ वज्र समयस्त्वम् ॥
ततो वज्रनामाभिषेकेण अभिषिंचेदनेन हृदयेन । ओं वज्रसत्त्व त्वामभिषिंचामि वज्रनामाभिषेकतः हे वज्र नाम ॥ यस्य यन्नाम कुर्यात्तस्य हे- शब्दः प्रयोक्तव्य इति ॥
सर्वमण्डलप्रवेशविधिविस्तरः ॥
ततो ब्रूयात्, "किन्ते ऽभिरुचिरर्थोत्पत्तिसिद्धिज्ञानं वा, ऋद्धिसिद्धिनिष्पत्तिज्ञानं वा, विद्याधरसिद्धिनिष्पत्तिज्ञानं वा, यावत्, सर्वतथागतोत्तमसिद्धिनिष्पत्तिज्ञानं वे" ति । ततो यस्य यदभिरुचितं तत तस्योच्चेयम् ॥

ततो ऽर्थसिद्धिनिष्पत्तिमुद्राज्ञानं शिक्षयेत् ।
वज्रबिम्बन्निधिस्थं तु हृदये परिभावयेत् ॥
भावयन् भूमिसंस्थानि निधानानि स पश्यति

5.2

वज्रबिम्बं समालिख्य गगने परिभावयेत् ।
पतेद्यत्र तु पश्येत निधितत्र विनिर्दिशेत्

5.3

वज्रबिम्बं तु जिव्हायां भावयेद् बुद्धिमान् नरः ।
अत्रास्तीति स्वयं वाचा ब्रवीति परमार्थतः

5.4

वज्रबिम्बमयं सर्वं भावयं कायमात्मनः ।
समाविष्टः पतेद्यत्र निधिन्तत्र विनिर्दिशेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc