सर्वतथागततत्त्वसंग्रह · अध्याय 4
इनितिअतिओन्
तत्रे दं सर्वावेशहृदयं भवति अः ॥
आज्ञां मार्ग्य यथावत्तु स्वाधिष्ठानादिकन्तथा ।
कृत्वोच्चार्य स्वकन्नाम ततो वज्रेण साधयेत
सत्त्ववज्राङ्कुशीं बध्वा वज्राचार्यस्ततः पुनः ।
कुर्वन्नच्छटसंघातं सर्वबुद्धां समाजयेत्
तत्क्षणं सर्वबुद्धास्तु वज्रसत्त्वसमन्विताः ।
सर्वमण्डलसंपूर्णाः समाजं यान्ति मण्डले
ततः शीघ्रं महामुद्रां [बध्वा] वज्रधरस्य तु ।
उच्चारयेत्सकृद्वारन्नामाष्टशतमुत्तमम
ततस्तुष्टाः समाजेन दृढं यान्ति तथागताः ।
वज्रसत्त्वः स्वयंसिद्धो मित्रत्वेनोपतिष्ठति
ततो द्वारेषु सर्वेषु कर्म कृत्वाङ्कु शादिभिः ।
महाकर्माग्र् यमुद्राभिः समयांस्तु निवेशयेत्
मुद्राभिः समयाग्र्याभिः सत्त्ववज्रादिभिस्तथा ।
साधयेत महासत्त्वो जः हूम् वं होः प्रवर्तयन्
ततो बुद्धादयः सर्वमहासत्त्वाः समग्रतः ।
आकृष्टा सुप्रविष्टाश्च बध्वा याम्यन्ति तद्वशम्
ततस्तु गुह्यपूजाभिः सन्तोष्य स महात्मना ।
विज्ञयेत्सर्वसत्वार्थं कुरुध्वं सर्वसिद्धये
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0