भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 47

47.1

तत्रायं रङ्गजापः ओं वज्रचित्र समय हूं ॥
ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः ।
मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं ॥
तत्रायं द्वारोद्घाटनमन्त्रः ओं वज्रोद्घाटय समय प्रवेशय हूं ॥
सौवर्णे राजते वापि मृण्मये वा सुचित्रिते ।
इष्टके चतुरस्त्रे तु बुद्धबिम्बन्निवेशयेत् ॥
तत्रेदं सर्वतथागताकर्षणहृदयं भवति । ओं वज्र ज्वालाग्निप्रदीप्ताकर्षय सर्वतथागतान् महावज्र समय हूं जः ॥
बुद्धस्य पुरतो वज्रं ज्वालामध्ये निवेशयेत् ।
ज्वालामध्ये लिखेद् रत्नं पद्मं विश्वायुधन्तथा ॥
अथासां वज्रसमयमुद्राणां निवेशहृदयानि भवन्ति ।
हूं सत्ववज्र ज्वालामाल हूं फट् ॥
ओं रत्नवज्र ज्वालामाल हूं त्रः ॥
ओं धर्मवज्र ज्वालामाल हूं ह्रीः ॥
हूं कर्मवज्र ज्वालामाल हूं हः ॥
वज्रवेगेन निःक्रम्य बुद्धस्य पुरतस्तथा ।
संलिखेद्विधिवत्प्राज्ञो वज्रहुंकारमण्डलम् ॥
तत्रेदं वज्रवेगहृदयं भवति ओं वज्रवेगाक्रम हूं ॥
एवं वज्रधात्वादिषु सर्वमण्डलेषु सूत्रमाक्रम्य, सर्वतो गच्छेदिति ॥
अथास्य मुद्रा भवति ।
मनोत्क्षिप्य रेखात्तु वज्रसूत्रमथापि वा ।
प्रविशन्ति क्रमत्वापि भ्रम्यते समयान्न सः

47.2

तत्र मध्ये महासत्वं व[ज्रपा]णिं समालिखेत् ।
महानीलोत्पलरुचं वज्र-हूं-कारसंग्रहं

47.3

ईषद् दंष्ट्राकरालास्यं सरोषहसिताननं ।
प्रत्यालीढस[माक्रान्तं ज्वा]लामालाकुलप्रभं

47.4

वामपादसमाक्रान्तस्तेन कार्य महेश्वरः ।
दक्षिणं तु लिखेत्पादमुमास्तनभरस्थितं

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc