भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 48

48.1

तत्रास्य हृद[यं भवति हूं ॥]
तस्य पार्श्वेषु सर्वेषु वज्रक्रोधान्निवेशयेत् ।
क्रुद्धदंष्ट्राकरालांस्तु ज्वालामालाकुलप्रभान् ॥
अथैषां हृदयानि भवन्ति ।
[हूं ॥
ओं वज्रसत्व]क्रोध हूं फट् ॥
ओं वज्रक्रोधाकर्षय हूं फट् ॥
ओं वज्रकाम क्रोध रागाय हूं फट् ॥
ओं वज्रतुष्टिक्रोध साधु साधु हूं फट् ॥
वज्रवेगे[न चा]क्रम्य द्वितीयं मण्डलोत्तमं ।
तत्रा वज्राभिषेकं तु लिखेत्क्रोधैः परिवृतं ॥
अथैषां हृदयानि भवन्ति ।
त्रः ॥
ओं वज्रभृकुटि क्रोध हर हर हुं फट् ॥
ओं वज्रसूर्य महाज्वालामाल क्रोध ज्वालय सर्व हुं फट् ॥
ओं वज्र क्रोध केतु देहि हुं फट् ॥
ओं वज्राट्टहास क्रोध हः हः हः हः हुं फट् ॥
वज्रवेगेन चाक्रम्य तृतीयं मण्डलात्तमं ।
वज्रसेनं समालेख्यं वृतं क्रोधैर्महात्मभिः ॥
अथैषां हृदयानि भवन्ति ।
ह्रीः ॥
ओं वज्रधर्म क्रोध विनाशय विशोधय हुं फट् ॥
ओं वज्रतीक्ष्ण क्रोध च्छिन्द च्छिन्द हुं फट् ॥
ओं वज्रहेतु क्रोध प्रविश प्रवेशय मण्डलं सर्वा हुं फट् ॥
ओं वज्रक्रोध भाष वद वद हुं फट् ॥
वज्रवेगेन चाक्रम्य चतुरथं मण्डलोत्तमं ।
वज्रावेशं समालेख्यं वज्रक्रोधगणैर्वृतं ॥
तत्रैषां हृदयानि भवन्ति ।
अः ॥
ओं वज्रकर्म ॥
ओं वज्रकवच क्रोध रक्ष रक्ष हुं फट् ॥
ओं वज्रयक्ष क्रोध खाद खाद हुं फट् ॥
हुं वज्रक्रोध मुष्टि साधय समय हुं फट् ॥
मण्डलस्य तु कोणेषु यथावदनुपूर्वता ।
वज्रधातुप्रयोगेण गुह्यपूजां समालिखेत् ॥
अथासां हृदयमुद्रा भवन्ति ।
ओं वज्रलास्ये रागय हूं फट् ॥
ओं वज्रमाले ऽभिषिञ्च हुं फट् ॥
ओं वज्रगीते गाद गाद हूं फट् ॥
ओं वज्रनृत्ये वशीकुरु हुं फट् ॥
वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं ।
तत्र कोणेषु कर्तव्यं पूजादेवीचतुष्टयं ॥
अथासां हृदयमुद्रा भवन्ति ।
ओं वज्रधूपपूजास्फरणसमये हुं फट् ॥
ओं वज्रपुष्पपूजास्फरणसमये हुं फट् ॥
ओं वज्रालोकपूजास्फरणसमये हुं फट् ॥
ओं वज्रगन्धपूजास्फरणसमये हुं फट् ॥
अङ्कुशाद्यास्तु कर्तव्या द्वारमध्यचतुष्टये ।
बाह्यमण्डलसंस्थेषु बाह्यवज्रकुलानि तु ॥
अथासां हृदयमुद्रा भवन्ति ।
ओं वज्राङ्कुश महाक्रोधाकर्षय सर्वसमयान् हूं ज्जः ॥
ओं वज्रपाश महाक्रोध प्रवेशय सर्वसमयान् हुं हूं ॥
ओं वज्रस्फोट महाक्रोध बन्ध बन्ध सर्वसमयान् हुं वं ॥
ओं वज्रावेश महाक्रोधावेशय सर्वसमयान् हुं अः ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र त्रिलोकविजयमहामण्डले प्रवेशविधिविस्तरो भवति ।
तत्रादित एव तावत्स्वयं वज्रा [चार्यो व]ज्रकोधतेरिन्तिरिमुद्रां बध्वा प्रविशेत् । प्रविष्ट्वा सर्वतथागतां विज्ञापयेत् । "अहं भगवन्तस्तथागताः क्रोधवशं यास्यामि [निग्रहीतव्यां] निग्रहीष्यामि संग्रहीतव्यां संग्रहीष्यामि । तन्मे भगवन्त आज्ञापयन्तु, कथं प्रतिपद्यामी"ति कृत्वा, वज्रक्रोधतेरिन्तिरिमुद्रां स्व[हृदये य]थावत्स्थाप्य, वज्राङ्कुशादिभिः कर्माणि कृत्वा, पुनः सर्वसमयमुद्रां बन्धयेत्; ततः सर्वे सान्निध्यङ्कल्पयन्ति । ततो गुह्यपूजाचतुष्टयं कृत्वा तथा धूपादिभिश्च ॥
ततो वज्रशिष्यां प्रवेशयेदनेन विधिना स्वयं वज्राचार्यो वज्रकोधतिरिन्तिरिमुद्रां बध्वा, शिष्याय बन्धयेदनेन हृदयेन ओं गृण्ह वज्र समय हुं वं ॥
ततो नीलवस्त्रान्तरीयनीलोष्णीषावबन्धशिराः, नीलरक्तकेन मुखं बध्वा, प्रवेशयेदनेन मन्त्रेण ओं वज्र समयं प्रविशामि ॥ ततः प्रवेश्य वज्रावेशसमयमुद्रयास्यावेशमुत्पादयेदनेन हृदयेन वज्रावेश अः ॥
ततः समाविशति । तेनावेशेन सर्वतथागतैरधिष्ठ्यते । सर्वं चातीतानागतप्रत्युत्पन्नन्निमिषादेव जानाति । अवध्यश्च भवति सर्वसत्वेभ्यः, अधृष्यः । हुंकारेण च सर्वसत्वनिग्रहानुग्रहसमर्थीभवति । वज्रपाणिश्चास्य नित्यं सर्वकार्याणि साधयतीति ॥
ततः शपथहृदयं दद्यात् । ततो यथावत् मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत् । मण्डले दृष्टमात्रे तु सर्वपापैर्विमुच्यते, सकलत्रिलोकविजयसमर्थो भवति । हुंकारेण च महादेवादिसर्वदेवाकर्षणप्रवेशनबन्धनवशीकरणपातनक्षमो भवति । सर्वतथागताधिष्ठानाच्च वज्रपाणिर्महाबोधिसत्वः सततानुद्धः स्वकीयाः सिद्धीर्ददाति ॥
ततो ऽस्य वज्राभिषेकेणाभिषिच्य, तीक्ष्णस्ववज्रचिन्हं यथावत् पाणिभ्यां दातव्यमनेन मन्त्रेण ओं वज्रपाणि वज्रकर्मकरो भव ॥
ततो वज्रनामाभिषेकन्दद्यादनेन मन्त्रेण । ओं वज्रक्रोध त्वामभिषिंचामि वज्रनामाभिषेकतः हेवज्र नाम ॥ ततो यस्य यन्नाम कुर्यात् तस्य हेशब्दः प्रयोक्तव्य इति ॥
ततो ज्ञानान्युत्पादयेत् ।
वज्रबिम्बं समालिख्य हृदि वालाकुलप्रभं ।
वज्रक्रोधसमापत्त्या सर्व आवेशयेज्जगत्

48.2

वज्ररत्नं ललाटे तु समालिख्य तथैव च ।
वज्रक्रोधसमापत्त्या सर्वसत्वान् वशन्नयेत्

48.3

वज्रपद्मं गले कृत्वा ज्वालामालाकुलप्रभं ।
वज्रक्रोधसमापत्त्या सर्वसत्वां स नाशयेत्

48.4

सत्ववज्रं प्रतिष्ठाप्य मूर्ध्नि ज्वालाकुल[प्रभं] ।
वज्रक्रोधसमापत्त्या रक्षेत् सर्वमिदं जगत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc