ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 46
46.1
तत्रानेन मन्त्रण सूत्रयेत् ओं वज्रसमय सूत्रं मातिक्रम ॥
चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टमालासुशोभितं
46.2
सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
स्वचित्तं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं
46.3
तस्याभ्यन्तरतः प्राज्ञो वज्ररत्नविभूषितं ।
चतुरस्त्रं चतुर्द्वारमष्टस्तम्भसतोरणं
46.4
वज्रस्तम्भाग्रसंस्थेषु पञ्चमण्डलमण्डितं ।
सूत्रयेन्मण्डलस्तत्र सूत्रं रङ्गैः प्रपूरयेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0