भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 45

45.1

इ]ति ॥
अथासां सकलत्रिलोकहृदयग्रहणसमयमुद्राणां समयग्रहणहृदयानि भवन्ति ।
ओं वलितोद्वलित वज्राकर्षय [हुं ज्जः ॥] वज्रवलितमुद्राया देवाकर्षणहृदयं ।
हुं वज्राग्र पीडय समय हुं ॥ अन्तरीक्षचराणं ॥
ओं वज्रमालाग्र वं ॥ मालधारिणी[नां ।]
ओं वज्रबन्ध हं ॥ भूचराणां ।
ओं वज्र पाताल भंज भंज हुं फट् ॥ पातालनिवासिनां ।
ओं हेरूक वज्र समय सर्वदुष्ट समय मुद्रा प्रभंजक हुं फट् ॥ सर्वमातॄणामिति ॥
अथ भगवान् वज्रपाणिर्भगवन्तमेतदवोचत् । "अहं भगवं सर्वतथागतैर्दुष्टदमक इत्यभिषिक्तः, तत्साध्वाज्ञापयैषां सर्वदुष्टमण्डलबन्धानां कथं प्रतिपद्यामि" ।
अथ भगवानिदमुपश्रुत्य एवमाह । ओं वज्र सुंभ निसुंभ हुं फट् ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वसत्वपरित्राणार्थमिदं सर्वमण्डलाकर्षणहृदयमभाषत् ।
ओं वज्र समयाकर्षय सर्वमण्डलान् वज्रधर सत्यं मातिक्रम हुं फट् ॥
वज्राङ्कुशद्वयं हृदये परिवर्तितं ।
अर्गाङ्कुशीद्वया बाह्यमण्डलाकर्षणं परं ॥
अथास्मिन् भाषितमात्रे सर्वमण्डलानि सर्वतः सुमेरुगिरिमूर्ध्नि बाध्यतः परिवार्यावस्थितानि ।
अथ भगवान् वज्रपाणिस्तां सर्वमण्डलसन्निवेशानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यसमयसंग्रहणम्!" इति । अथ तैर्बाह्यमण्डलसमयसत्वैर्भगवां विज्ञप्तो, "वयं भगवन् मान्साहारा दृष्टसत्वतया ओजोहारेण जीविकां कल्पयामः; तदाज्ञापयतु भगवान् कथमस्माभिर्जीवितव्यम्" इति ।
अथ वज्रपाणिर्महाबोधिसत्व इमं दुष्टवज्रक्रोधमभाषत् । ओं दुष्टवज्रक्रोध हन दह पच विध्वंसय विकिर सर्वदुष्टसमयमुद्रामण्डलान् भंज भंज मर्द मर्द खाद खाद परमन्त्रान् वज्र समय हुं फट् ॥
वज्र क्रोधाङ्गुली सम्यग्नखसन्धानवेष्टिते ।
सन्धयेन्मुखतो गाढां मुद्रेयं दुष्टनाशनी ॥ ति ॥
अथास्मिन् भाषितमात्रे सर्वदुष्टमण्डलानि एकध्यीभूत्वानेकानि विध्वन्सितानि विकीर्णानि, समयमुद्राबन्धाः स्फोटिताः । ते च दुष्टसमयसत्वा दह्यमानाः पच्यमाना महान्तो महारौरवान्तान्तान् खान् मुञ्चन्तो, येन भगवान् महावज्रधरस्तेनाञ्जलयो बध्वैवमाहुः । "परित्रायस्व भगवन्, येन वयं प्राणान् न परित्यजामः!" ।
अथ वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "आज्ञापयस्व भगवन् कथमेषां दुष्टमण्डलानां प्रतिपद्यामि" । अथ भगवानिदमुवाच ओं निसुंभ हन दह पच गृह्ण बन्ध हुं फट् ॥
अथ वज्रपाणिर्महाबोधिसत्व इ[मं] वज्रक्रूरक्रोधमभाषत् ओं महावज्रक्रूरक्रोध पातय सर्वदुष्टमण्डलान्, विनाशय सर्वदुष्टसमयान्, विकिर विध्वं[सय स्फो]टय भंजय सर्वदुष्टसमयमुद्राबन्धान्, गृह्ण हन दह पच सर्वदुष्टसमयसत्वान्, वज्र समय हुं फट् ॥
अथास्मिन् भाषितमात्रे सर्वदुष्टसमयमुद्रामण्डलानि पुनरप्येकध्यीभूत्वा महासागरे प्रपतितानीति ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवता सर्वदुष्टदमनायाध्येषितः । तदेषां डाकिनीग्रहादीनां सर्वग्रहाणां कथं प्रतिपद्यामि? ।"
अथ भगवानिदमवोचत् ओं हन हन वज्र हुं फट् ॥
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वडाकिन्यादिदुष्टग्रहाकर्षणहृदयमभाषत् ओं वज्राकर्षय शीघ्रं सर्वदुष्टग्रहान् वज्रधरसत्येन हुं जः ॥
अथास्मिन् भाषितमात्रे डाकिन्यादयः सर्वदुष्टग्रहाः सुमेरुगिरिमूर्ध्नि बाह्यतो मण्डलीभूत्वावस्थिता इति ॥
अथ वज्रपाणिर्महाबोधिसत्वः तां डाकिन्यादीन् सर्वदुष्टग्रहानाहूयैवमाह । "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यशिक्षासमयसंवरे; मा वो वज्रेणादीप्तेन प्रदीप्तेनैकज्वालीभूतेन कुलानि निर्दहेयम्" ।
अथ ते डाकिन्यादयः सर्वदुष्टग्रहा येन भगवान् तेनाञ्जलिम् बध्वा भगवन्तं विज्ञापयामासुः । "वयं भगवन् मान्साशिनस्, तदाज्ञापयस्व कथं प्रतिपत्तव्यम्" इति ।
अथ भगवान् वज्रपाणिमेवमाह "प्रतिपद्यस्व वज्रपाणे एषां सर्वानां महाकरुणामुत्पाद्योपायन्दातुम्" इति ।
अथ वज्रपाणिर्महाकारुणिक इदं सर्वसत्वमरणनिमित्तज्ञानमुद्राहृदयमभाषत् ओं वज्र प्रतिगृहण हृदयमाकर्षय, यद्ययं सत्वो मांसादत्वेन म्रियते, तदस्य हृदयन्निष्क्रमतु, समय हुं ज्जः ॥
अथास्य मुद्राबन्धो भवति ।
वज्रबन्धं समाधाय बाहुभ्यां सुहृदं हृदि ।
वज्राङ्गुलिमुखाभ्यान्तु स्वकक्षौ तु समुत्कर्षेद् ॥ इति ॥
अनया मुद्रया भवद्भिः सर्वसत्वहृदयान्यपकृष्य भोक्तव्यानी-" ति ।
अथ ते डाकिन्यादयः सर्वदुष्टग्रहा हुलुहुलुप्रक्ष्वेडितानि कृत्वा स्वभवनं गता इति ॥
अथ भगवान् वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवद्भिः सर्वतथागतैः सर्वदुष्टदमक इति कृत्वाध्यिष्टः । तदाज्ञापयतु मे भगवान् ज्वरादीनां व्याधीनां किङ्करोमि" ॥
अथ भगवानाह ओं हुं फट् ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वज्वराद्याकर्षणहृदयमुदाजहार ओं वज्र समयानय सर्व[दुष्ट]ज्वरादीन्नाशयं हुं फट् ॥
अथास्मिन् भाषितमात्रे ज्वरादयः सर्वे सुमेरुगिरिमूर्ध्नि बाह्यतः परिवार्यवस्थिता अभूवन् ।
अथ वज्रपाणिस्तान् ज्वरादीनाहूयैवमाह । "प्रतिपद्यत मार्षाः सत्वोपघातवैरमण्यशिक्षाग्रहणसंवरे!" । अथ त एवमाहु । "वयं भगवन् सत्वौ [जो ऽप]हृत्य जीविकां कल्पयामः । तत्साधु भगवानाज्ञापयतु कथं प्रतिपद्यामह" इति ।
अथ वज्रपाणिर्महाबोधिसत्व इदं स्वकर्मविशुद्धिज्ञानमुद्राहृदयमुदाजहार ओं वज्रकर्म विशोधय सर्वावरणानि बुद्धसत्येन समय हूं ॥
अथास्य मुद्राबन्धो भवति ।
वज्राञ्जलिं दृढीकृत्य तर्जनीद्वयकुञ्चितां ।
सुबन्धितसमाङ्गुष्ठ्ययन्त्रिता पापहारिणी ॥ इति ॥
इयं मुद्रा यस्य ज्वरादिसर्वव्याधिस्पृष्टस्य कर्मतो दर्शयेत्, तद्युष्माभिरपसर्तव्यं; मा वो जीवितनाशो भवेद्" इति । अथ त "एवमस्त्व्" इति कृत्वा प्रक्रान्ता इति ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानेवमाह । "अहं भगवद्भिः सर्वावरणनीवरणकर्मावरणविशुद्धिहेतोः स्वहृदयेभ्यो विनिःसृष्टः । तदाज्ञापयतु मे भगवन्तः एषान्नरकादीनां सर्वापायानां कथं प्रतिपत्तव्यम्" इति ।
भगवानाह ओं क्षपय वज्र स्वाहा ॥
अथ वज्रपाणिर्महाबोधिसत्वः रौरवादिसर्वापायगतिचक्राकर्षणहृदमभाषत् ओं सर्वापायकर्षण विशोधन वज्रसमय हुं फट् ॥
अथास्मिन् भाषितमात्रे रौरवमहारौरवादयः सर्वापायसन्निवेशाः सुमेरुगिरिमुर्ध्नि बाह्यतः परिवार्यावस्थिताः ।
अथ वज्रपाणिर्महाबोधिसत्वः तानपायभूमिपतितान् सर्वसत्वानाहूयैवमाह । "गृह्णत मार्षास्त्रिशरणगमनसङ्कटात्! । एष वयं बुद्धं धर्म संघं त्वं च शरणं गच्छाम" इति ।

अथ वज्रपाणिः सर्वापायस्फोटनहृदयमुदाजहार ओं वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्य सर्वसत्वान् सर्वतथागतवज्र समय त्रट् ॥
अथास्य मुद्राबन्धो भवति ।
वज्रबन्धं दृढीकृत्य मध्यमाद्वयसन्धिता ।
चतुरन्त्यमुखासक्ता पापस्फोटेति कीर्तिता ॥
अथ ते त्र्यपायगतिचक्रान्तरस्थिताः सर्वसत्वा वज्रपाणिसकाशादिमां मुद्रां दृष्ट्वा, सर्वदुर्गतिभ्यश्च्युत्वा, भगवतो वैरोचनस्य पादमूले उपपन्नाः । ते चापाया महासमुद्रे पतिता इति ।
अथ वज्रपाणिर्महाबोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् । "अहं भगवन्नशेषानवशेषत्वधातुपरित्राणसर्वहितसुखानुभवनार्थ यावत्सर्वतथागतत्वोत्तमसिद्धिफलावाप्तिहेतोः सर्वतथागतसिद्धिवज्रं दत्वा, सर्वतथागतैरध्यिष्टः ।तत्साधु आज्ञापयन्तु मे भग[वन्तः] सर्वतथागता अथैषां मनुष्याणां किङ्करोमी-"ति ।
अथ सर्वतथागताः पुनः समाजमागम्येदमवोचन् ओं वज्रपाणि महा[मण्डले] प्रवेशय, सर्वान् दुष्टरौद्रान् निवारय, पापेभ्यः प्रमोक्षय, दुर्दृष्टिपर्यापन्नान् विशोधय नाशय विनाशय ह ह ह ह हूं ॥
अथ वज्रपाणिः सर्वतथागताज्ञावचनमुपश्रुत्य, अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिनिमित्तं यावत् सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोरिदं सर्वतथागतमहावज्रसमयभूतं त्रिलोकविजयन्नाम महामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं सर्वसिद्धिकरं परं

45.2

त्रिलोकविजयन्नाम समयं वज्रसंभवं ।
बुद्धबोधिप्रवर्तारं सर्वदुष्टविनाशनं

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc