सर्वतथागततत्त्वसंग्रह · अध्याय 44
इति ॥
सुब्जुगतिओन् ओf महेस्वर अन्द् हिस् रेतिनुए
अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागताध्येषणवचनमुपश्रुत्य, तद्वज्रं स्वहृदि प्रतिष्ठाप्य, तान् सर्वतथागतान् आहूयैवमाह । "भागवन्तः सर्वतथागता न प्रतिपद्यामि" ॥ सर्वतथागता प्राहुः । "को हेतुः?" ॥ वज्रधरः प्राह । "सन्ति भगवन्तः सत्वाः महेश्वरा दिदुष्टस] त्वा, ये युष्माभिरपि सर्वतथागतैरविनेयाः, तेषां मया कथं प्रतिपत्तव्यम्!" ॥
अथ भगवान् वैरोचनस्तथागतः [सर्वतथाग]ताधिष्ठानेन सर्वतथागतमहोपायज्ञानवज्रन्नाम समाधिं समापन्नः । समनन्तरसमापन्ने चाथ तावदेव स[र्वतथाग]ताः सकलाकाशधातुपरमाणुरजः समवसरण[स्फरण] ताय सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नकूटागारे [पुनः] समाजमागम्य, सर्वतथागतसमतामध्यालम्भ्य, भगवतो वैरोचनस्य श्रीवत्सहृदये प्रविष्टाः ।
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतहृदयमात्मानमधिष्ठाय सर्ववज्रसमतया अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिहेतोः सर्वदुष्टविनयाय च, सर्वतथागतमहाकरुणोपायसमाधिज्ञानमध्यालम्भ्य, सर्वतथागतमहाकरूणोपायक्रोधसमय वज्रं नाम समाधिं समापन्नः । समनन्तरसमापन्ने चात्रैतस्मिन्नेव क्षणे सर्वतथागतहृदयेभ्यः सर्वतथागतसमयन्नाम सर्वतथागतहृदयं निश्चचार हुं ॥
अथास्मिन् विनिःसृतमात्रे वज्रपाणिहृदयवज्रात्स एव भगवान् वज्रधरः समन्तज्वालागर्भाः सभ्रुकुटिभ्रूभङ्गोत्कुञ्चितललाटविकटदंष्ट्राकरालमुखाः वज्राङ्कुशकोषपाशादिवज्रज्वालान्निप्रदीप्तप्रहरणव्यग्रकराः अनेकविधवर्णालङ्कारविचित्रवेषधराः वज्रपाणिविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वदुष्टविनयङ्कृत्वा, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भुत्वेदमुदानमुदानयिंसुः ॥
अहो ह्युपायविनयं महोपायवतामहं ।
यत्सत्वोपायविनयात्क्रोधत्वं यान्ति निर्मला ॥ इति ॥
अथ भगवान् वैरोचनस्तथागतः सर्वतथागताप्रपञ्चधर्मतामध्यालम्भ्य, सर्वतथागतमहाक्रोधवज्रसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं सर्वतथागतवज्र-हुङ्-करन्नाम सर्वतथागतहृदयं विद्योत्तममभाषत् ।
ओं सुंभ निसुंभ हुं ।
गृह्ण गृह्ण हुं ।
गृह् णापय हुं ।
आनय हों भगवन् ।
वज्र हुं फट् ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यो भगवान्वज्रपाणिर्विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रेभ्यो यावन्तः सर्वतथागताः सबोधिसत्वपर्षद्मण्डलाः समाधिष्ठायाकृष्य, वज्रसमयमहामण्डले प्रवेश्य, समयैर्बध्वा, पुनरप्येकघनो महावज्रक्रोधकायो भूत्वा, भगवतो [वैरो]चनस्य हृदये स्थित्वेममुदानमुदानयामास ।
अहो हि बोधिचैत्तस्य सर्वतो भद्रतानघा ।
यत्सत्वविनयाद्याति क्रोधो ऽपि रमणीय[ताम् ॥ इति] ॥
अथ स महावज्रक्रोधकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गया[मास] ॥
अथ भगवान् सर्वतथागतसमयाकर्षणवज्रन्नाम समाधिं समापद्येदं सर्वतथागतसमयाङ्कुशन्नाम सर्वतथागतहृदयं स्वहृ[दय]न् निश्चचार हुं टक्कि ज्जः ॥
अथास्मिन् विनिःसृतमात्रे सर्वलोकधातुप्रसरमेघसमुद्रेषु यावन्तस्त्रैलोक्याधिपतयो महेश्वरादयस्ते स[र्वे स]र्वलोकसन्निवेशगणपरिवृताः अशेषानवशेषाः सर्वतथागतसमयवज्राङ्कु शेनाकृष्टाः समाना येन सुमेरुगिरिमूर्धा [येन] च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रम्य, भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वतः परिवार्यावस्थिता अभूवन् ॥
अथ वज्रपाणिस्तद्वज्रं स्वहृदयाद्गृह्योल्लालयन् सर्वावन्तं सकलत्रैधातुकत्रिलोकचक्रमवलोक्यैवमाह । "प्रतिपद्यत [मार्षा]स्सर्वतथागतशासने, मम चाज्ञां पालयत!" । अथ त एवमाहुः । "कथम् प्रतिपद्यामः?" । भगवान् वज्रपाणिराह । "बुद्ध धर्मं च सङ्घं च शरणगमनं प्रतिपत्तितः, सर्वज्ञज्ञानलाभाय प्रतिपद्यध्वं मार्षा!" इति ॥
अथ यो ऽस्मिन् लोकधातौ सकलत्रैलोक्याधिपतिर्महादेवः सर्वत्रैलोक्याधिपत्यगर्वितो महाक्रोधतान्दर्शयन्नेवमाह । "अहं भो यक्ष त्रैलोक्याधिपतिरीश्वरः कर्ता विकर्ता सर्वभूतेश्वरो देवातिदेवो महादेवः; तत्कथमहं ते यक्षज्ञाङ्करिष्यामी-?" ति ॥
अथ वज्रपाणिः पुनरपि वज्रमुल्लालयन्नाज्ञाप्यति । "भो दुष्टसत्त्व शीघ्रं प्रविश मण्डलं, मम च समये तिष्ठ!" ।
अथ महादेवो देवो भगवन्तमिदमवोचत् । "को ऽयं भगवन्नीदृशः सत्वो यो ऽयमीश्वरस्यैवमाज्ञान्ददाति?" ।
अथ भगवान् सर्वावन्तं महेश्वरादित्रैलोक्यगणमाहूयैवमाह । "प्रतिपद्यत मार्षास्त्रिशरणगमनसमयसंवरे; मायं वज्रपाणिर्यक्षः क्रूरः क्रोधनश्चण्डो महाबोधिसत्वश्च वो दीप्तेन वज्रेण सकलमेव त्रैधातुकं नाशयेद्" इति ।
अथ महेश्वरः सकलत्रैलोक्याधिपत्यतया स्वज्ञानवशितया च भगवतो वज्रपाणेर्भयसन्दर्शनार्थं महाचण्डक्रोधतां महाभैरवरूपतां महाज्वालोत्सृजनतां महा[रौ]द्राहासतां सहगणैः सन्दर्शयन्नेवमाह । "अहं भोः सकलत्रैलोक्याधिपस्त्वं ममाज्ञान्ददासी-" ति ॥
अथ वज्रपाणिस्तद्वज्रं [सगर्वम्] उल्लालयन् विहसन्नेवमाह । "प्रतिपद्य भो कटपूतनमानुषमान्साहार चितिभस्मभक्ष्यभोज्य शय्यासनप्रावरण ममाज्ञा[म्पालय]!" । अथ महेश्वरो महादेवः सकलं त्रैलोक्यं महाक्रोधाविष्टमधिष्ठाय, एवमाह । "त्वमपि ममाज्ञां पालय, समये च प्रति[पद्य!" इ]ति ॥
अथ वज्रापाणिर्महाक्रोधराजो भगवन्तमेतदवोचद् । "अयम्भगवन्महादेवो देवः स्वज्ञानबलगर्वात् महेश्वर्या[धिप]त्यात् च सर्वतथागतशासने न प्रणमति ।
तत्कथमस्य क्रियत?" इति ॥
अथ भगवान् सर्वतथागतहृदयसंभूतं महावज्रस[मयं] स्मारयति ओं निसुम्भ वज्र हुं फट् ॥
अथ वज्रपाणिर्महाबोधिसत्वः स्ववज्रहृदयमुदाजहार हुं ॥ अथास्मिन् भाषितमात्र सकलत्रैधातुकसन्निपतिता महादेवादयः सर्वत्रैलोक्याधिपतयः अधोमुखाः प्रपतिताः आर्तस्वरं मन्वन्तो भगवतो वज्रपाणेश्च शरणं गताः । स च महादेवो देवो भूम्यां प्रपतितो निश्चेष्टीभूतो मृतः ॥
अथ भगवान् जानन्नेव वज्रपाणिमेवमाह । "प्रतिपद्यस्व वज्रपाणे अस्य सकलत्रिलोकचक्रस्याभयाय, मा पञ्चत्वमापादय" । अथ वज्रपाणिर्महाक्रोधराजो भगवतो वचनमुपश्रुत्य तां सर्वदेवादीनाहूयैवमाह । "बुद्धं धर्म सङ्घं च शरणं प्रतिपद्यत, ममाज्ञाकारितायां च, यदीष्टं वः स्वजीवितम्" इति । अथ त एवमाहुः । "सबुद्धधर्मसङ्घसमुद्रांच्छरणं गच्छामः, त्वच्छासनाज्ञां न जानीम" इति ॥
अथ भगवान् वैरोचनस्तथागतस्तानाहूयैवमाह । "अयं भो देवो ऽस्माकं सर्वतथागताधिपतिः सर्वतथागतपिता सर्वतथागताज्ञाकरः सर्वतथागतज्येष्ठपुत्रो भगवां समन्तभद्रो बोधिसत्वो महासत्वः सर्वसत्वविनयेन कार्यकरणतया महाक्रोधराज्यतायामभिषिक्तः । तत्कस्माद्धेतोः? । सन्ति युष्मद्मध्ये महादेवादयो दुष्टगणास् ते सर्वतथागतैरपि न शक्याः शान्तया पापेभ्यो निवारयितुं । तेषां पापसत्वानां निग्रहाय अधितिष्ठितस्तद्युस्माभिरस्य समये स्थातव्यमित्याज्ञा" इति । त एवमाहुर् । "अस्माकं भगवन्नस्माज्जीवितविप्रलायात्परित्रायस्व । यामाज्ञान्दास्यति तत्करिष्यमह" इति । भगवानाह । "हं भो मार्षा एतमेव शरणं गच्छतायमेव वः परित्रास्यति, नान्य" इति ॥
अथ ते त्रिलोकसकलत्रैधातुकसन्निपतिताः त्रिभुव[नपत]यो येन भगवान् वज्रधरस्तेनाभिमुखा एककण्ठेन महार्तान् स्वरान्प्रमुञ्चत एवमाहुः । "परित्रायस्व भो भगवन् परित्रायस्व अतो मरणदुःखाद्" इति ॥
अथ वज्रपाणिर्महाबोधिसत्वस्तां देवादीनाहूयैवमाह । "हं भो दुष्टाः प्रतिपद्यत मम शासने । मा वो [दीप्तेना]नेन वज्रेण एकज्वालीकृत्य, सर्वानेव भस्मीकुर्याम्" इति । त एवमाहुः । "समन्तभद्रस्त्वं भगवन्सर्वतथागतचित्तोत्पाद[ः शान्तविनीतः] सर्वसत्वहितैषी सर्वसत्वाभयप्रदः । तत्कथं भगवन्नस्माकन्निर्दहिष्यती-?" ति । अथ वज्रपाणिर्महाक्रोधरजस्तानेवमाह । "[अहं भो] मार्षाः समन्तभद्रो येन सर्वतथागताज्ञाकारित्वाद्युष्मद्विधानां दुष्टसत्वजातीयानां पापचित्तानां संशोधनार्थाय, विनाशयामि यदि मत्समये न तिष्ठत" इति । ते प्राहुर् "एवमस्त्वि" ति ॥
अथ वज्रपाणिर्महाक्रोधराजो महेश्वरं मुक्त्वान्यान्देवानाश्वास्योत्थापनार्थमिदम् वज्रोत्तिष्ठन्नाम सर्वतथागतहृदयमभाषत् वज्रोत्तिष्ठ ॥ अथास्मिन् भाषितमात्रे महेश्वरं मुक्त्वा सर्वे ते त्रिधातुकसन्निपतितास्त्रिभुवनपतयः सपरिवाराः संमूर्च्छिताः समानाः समाश्वस्तहृदया अभूवन् दिव्यानि सुखान्यनुभवन्तो विगतभयच्छभितरोमहर्षा भगवन्तं वज्रपाणिनमवलोकयन्तः समुत्थिता इति ॥
अथ भगवान् वज्रपाणिं बोधिसत्वमामन्त्रयामास । "अयं महासत्वो महादेवो देवाधिपतिर्नोत्थापितः, तत्किमस्य जीवितविप्रणाशेन कृतेन?; जीवापयैनं, सत्पुरुषो ऽयं भविष्यती-" ति । अथ वज्रपाणिर् "एवमस्त्व्" इति कृत्वेदं मृत संजीवनहृदयमुदाजहार वज्रायुः ॥ अथास्मिन् भाषितमात्रे महादेवो देवो मृतः संजीव्योत्थातुमिच्छति, न शक्तो व्युत्थातुं । ततो भगवन्तमेतदवोचत् । "किमहं भगवता एवं शास्यामि?" । भगवानाह । "न त्वं प्रतिपद्यस्वास्य महासत्पुरुषस्याज्ञाङ्कर्तु । अयमेव तेन शास्ति, नाहं" । महेश्वरः प्राह । "किन्न त्वं भगवंच्छक्तो ऽस्माद्दृष्टसत्वान्परित्रातुम्?" इति । भगवानाह । "नाहमस्मात्समर्थः परित्रातुं" । आह । "तत्कस्माद्धेतोर्" । आह । "सर्वतथागताधिपतित्वात्" । आह । "नाहं भगवं भगवतो भाषितस्यार्थमाजाने । किन्तु यत्र हि नाम तथागतानामपि सर्वत्रैधातुकाधिपतीनामन्यो ऽधिपतिस्तन्न जाने को ऽयम्" इति ॥
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः पुनरपि महादेवमाहूयैवमाह । "न प्रतिप[द्यसि किं] दुष्टसत्व ममाज्ञाङ्कर्तुम्?" इति । अथ महादेवो वज्रसत्ववचनमुपश्रुत्य कुपितश्चण्डीभूतस्तथा पतित एव पुनरपि महारौद्ररूपतां दर्शय[न्ने]वमाह । "मरणमप्युत्सहामि; न च तवाज्ञाङ्करिष्यामि" ॥
अथ वज्रपाणिर्महाबोधिसत्वो महाकोपतां सन्दर्शयन्स्वक्रमतालादिद[मनुच]रन् निश्चचार ओं पादाकर्षण वज्र हूं ॥
अथ भगवतश्चरणतालात्समन्तज्वाला गर्भाकृतभ्रुकुटीदंष्ट्राकरालमहावक्त्रो वज्रा नुचरो भगवतो वज्रपा] णेः पुरतः स्थित्वाज्ञां मार्गयामास ॥
अथ वज्रापाणिर्महेश्वरसंशोधननिमित्तमेवमाह ओं पादाकर्षाकर्षस्य सर्ववज्रधरानुचर [कण्ड कण्ड व]ज्र हूं जः ॥
अथैवमुक्ते महादेव उमादेवीसहितः ऊर्ध्वपादो नग्नः सर्वजगद्भिरुपहस्यमानः पादाकर्षणवज्रानुचरेण भगव[तो वज्रपा]णेः पुरतः पादताले स्थापित इति ।
अथ वज्रपाणिर्बोधिसत्वो भगवन्तमेतदवोचत् । "अयं भगवन् दुष्टसत्वः सपत्नीकः किं करोमि?" [इति] । भगवानाह ओं वज्राक्रम होः ॥ अथैवमुक्ते वज्रपाणिर्महाबोधिसत्वो महादेवं वामपादाक्रान्तं कृत्वा, दक्षिणेन चोमा [याः स्तनौ पीड]यन्निदं स्वहृदयमुदाजहार ओं वज्राविश हनय त्रं त्रट् ॥
अथास्मिन् भाषितमात्रे महादेवः समाविष्ट्वा, स्वकरसहस्रेण मुख[सह]स्त्रमहनत् । अथ वज्रमणिरत्नशिखरकूटागारस्य बाह्यतः सर्वत्रिभुवनैर्महानादो मुक्तः । "अयं सो ऽस्माकमधिपतिरनेन महात्मना [शास्यत" इति] ॥
अथ भगवान् महादेवस्योपरि महाकरुणामुत्पाद्य, इदं सर्वबुद्धमैत्रीहृदयमभाषत् ओं बुद्ध मैत्री वज्र रक्ष हं ॥
अथास्मिन् भाषितमात्रे महादेवस्य तदावेशदुःखमुपशान्तं । तच्च वज्रपाणिपादतलस्पर्शमनुत्तरसिद्ध्यभिषेकसमाधिविमोक्षधारणी ज्ञानाभिज्ञावाप्तये यावत् तथागतत्वाय संवृत्त इति । अथ महादेवो भगवत्पादतलस्पर्शात्सर्वतथागतसमाधिधारणीविमोक्षसुखान्यनुभवन्त महादेवकायं वज्रपाणिपादमूले निपातयित्वा, अधस्ताद् द्वात्रिंशद्गङ्गानदीवालुकोपमलोकधातुपरमाणुरजः समा लोकधातवो ऽतिक्रम्य, भस्मच्छत्रा नाम लोकधातुस्तत्र भस्मेश्वरनिर्घोषो नाम तथागत उत्पन्नः । अथ तस्मान्महादेवकायादिदमुदानं निः सृतवान् ।
अहो हि सर्वबुद्धानां बुद्धज्ञानमनुत्तरं ।
पातयित्वाक्षरपदे निर्वृत्तौ स्थापयन्ति हि ॥ इति ॥
अथ वज्रपाणिर्महाबोधिसत्वस्तानन्यान् नारायणादान् सर्वत्रिलोकाधिपतीनेवमाह । "प्रविशध्वं मार्षा अस्मिन्सर्वतथागतवज्रसमयमहामण्डले; प्रविष्ट्वा सर्वतथागतसमयमनुपालयत!" । त एवमाहुः । "यथा ज्ञापयसि तथा कुर्म" इति ॥
अथ वज्रपाणिर्महाबोधिसत्वस्तांस्त्रिभुवनसन्निवेशानाहूयैवमाह । "प्रतिगृण्हत मार्षाः पुनस्त्रिशरणगमनशिक्षासमयसंवरं, मम च समये तिष्ठत!" । त एवमाहुः "एवमस्त्विति । किन्तु वयं तव समयम् [अकोविदाः]" ।
अथ वज्रपाणिः स्वसमयमनुप्रादात् । बोधिचित्तं समुत्पद्य यथा च क्रमतः पर[म् । बोध्यर्थाय यथाबलं यत]ध्वं सुसमाहिताः ॥
अथ वज्रपाणिर्महाबोधिसत्वः तेषां देवादीनां, "प्रवेशमहासमयमुद्रां बन्धान" इति कृत्वा, बन्धयन्ति स्म, अनेन [महासमय]मुद्राहृदयेनेति ।
ओं वज्र समय गृह्ण बन्ध समयं,
वज्रसत्व समयमनुस्मर सर्वतथागतसमयस्त्वं ।
दृढी मे भव, स्थिरो मे भव, [आहार्यो मे भव, अप्रतिहा]र्यो मे भव,
सर्वकर्मसु च मे चित्तश्रेयः कुरु ।
ह ह ह ह हूं ॥
अथास्मिन्नुच्चारितमात्रे सकलत्रैधातुकत्रिभुवनजनसनिवेशस्य[वज्रक्रोधतेरिन्तिरिमुद्रापाणिभ्यामाविश्य बन्धतो दृढीभूतेति ॥
नेw नमेस् ओf सर्व देइतिएस्
अथ वज्रपाणिर्यथावत्प्रवेशयित्वा, सर्वमहामण्डलं यथानुपूर्वेण देशयित्वा, वज्ररत्नाभिषेकैरभिषिच्य, वज्रचिन्हानि च करेभ्यो दत्वा, वज्रनामाभिषेकैरभिषिच्य, सर्वतथागतसत्वार्थतायां स्थापयामास । अथ सर्वत्रैलोक्याधिपतीनां कर्म भवति । तद्यथा, महेश्वराय क्रोधवज्रः, नारायणाय मायावज्रः, सनत्कुमाराय वज्रघण्टः, ब्रह्मणे मौनवज्रः, इन्द्राय वज्रायुधः, इति विद्याराज्यका इत्यभिषिक्ताः । ततो ऽन्तरीक्षचराणां सर्वदेवाधिप[तीनामनुप्रादात् ।] तद्यथा, अमृतकुण्डले वज्रकुण्डलिः, इन्दवे वज्रप्रभः, महादण्डाग्राय वज्रदण्डः, पिङ्गलाय वज्रपिङ्गलः, इत्येवमादाय वज्रक्रोधा इत्यभिषिक्ताः । तत आकाशचराणां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, मधुमत्ताय वज्रशौण्डः, मधुकराय वज्रमाला, जयाय वज्रवशी, जयावहाय विजयवज्र, इत्येवमाद्या गणपतय इत्यभिषिक्ताः । ततो भौमानां सर्वदेवाधिपतीनामनुप्रादात् । तद्यथा, कोशपालाय वज्रमुसलः, वायवे वज्रानिलः, अग्नये वज्रानलः, कुबेराय वज्रभैरवः, इत्येवमादयो दूता इत्यभिषिक्ताः । ततः पातालाधिपतीनां सर्वदेवानामनुप्रादात् । तद्यथा, वराहाय वज्राङ्कुशः, यमाय वज्रकालः, पृथ्वीचूलिकाय वज्रविनायकः, वरुणाय नागवज्रः, इत्येवमाद्याश्चेटका इत्यभिषिक्ताः ॥
नेw नमेस् ओf सैव गोद्देस्सेस्
ततस्त्रैलोक्याधिपतिः सर्वदेवीनां वज्ररत्नाभिषेकेणाभिषिच्य, स्वचिन्हेभ्यो वज्राधिष्ठाप्य, [वज्र] नामाभिषेकेणाभिषिच्य, सर्वतथागतसत्वार्थतायां प्रतिष्ठापयामास । तद्यथा, उमायै क्रोधवज्राग्निः, रुक्मिण्यै [वज्रसौवर्णी], षष्ठ्यै वज्रकौमारी, ब्रह्माण्यै वज्रशान्तिः, इन्द्राण्यै वज्रमुष्टिरि, त्येवमाद्या वज्रराजनिका इत्यभिषिक्ताः । ततो ऽन्तरीक्षचरीणां [सर्वमा]तृणामनुप्रादात् । तद्यथा, अमृतायै वज्रामृता, रोहिण्यै वज्रकान्तिः, दण्डहारिण्यै दण्डवज्राग्रा, जाताहारिण्यै वज्र[मेखला], इत्येवमाद्या वज्रक्रोधिन्य इत्यभिषिक्ताः । ततः खेचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, मारण्यै वज्रविलया, [अशना]यै वज्राशना, वसनायै वज्रवसना, रत्यै वज्रवशा, इत्येवमाद्या गणिका इत्यभिषिक्ताः । ततो भूचरीणां सर्वमातॄणामनुप्रादात् । तद्यथा, शिवायै वज्रदूती, वायव्यै वेगवज्रिणी, आग्नेध्र्यायै वज्रज्वाला, कुबेर्यै वज्रविकटा, इत्येवमाद्या वज्रदूत्य इत्यभिषिक्ताः । ततः पातालवासिनीनां सर्वमातॄणामनुप्रादात् । वाराह्यै वज्रमुखी, चामुण्डायै वज्रकाली, च्छिन्ननासायै वज्रपूतना, वारुण्यै वज्रमकरी, इत्येवमाद्या वज्रचेट्य इत्यभिषिक्ताः ॥
अथ वज्रपाणिर्महाबोधिसत्वः तेषां सर्वप्रविष्टानाम्बुद्धज्ञानानि निष्पाद्य, सर्वमुद्राबन्धानि शिक्षयित्वा, वज्रसमयान्यनुप्रादात् अनेन शपथहृदयेन ।
अयं वज्रो महावज्रस्सर्वबुद्धैरधिष्ठितः ।
समयव्यतिक्रमात्क्षिप्रं भस्मीकुर्यत्कुलानि तु ॥
ओं हन समय हुं फट्
मुद्र
ततो हृदयग्रहणमुद्रमनुप्रादात् ।
वज्रमुद्राद्विकं बध्वा तर्जन्यङ्कुशबन्धितं ।
वलितोद्वलितं कुर्याद्यस्तु कार्यार्थचिन्तकः
तस्य युष्माभिः पुरतः स्थातव्यं कार्यसिद्धये ।
मा वो जीवितनाशाय भवेत्समयो ह्ययम्
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं ।
सन्धायाङ्गुष्ठयुगलं पीडयेन्मध्यमाद्वयं
अयं वः समयो हन्याद् यदिं कश्चिदतिक्रमेत् ।
बन्धं समयमुद्राया वज्रविद्याधरस्य तु
कनिष्ठाङ्ग लिबन्धन्तु वज्रमुद्राद्विकस्य तु ।
पृष्ठतो ऽग्राङ्गु लिग्रस्तं परिवर्त्य शिरे स्थितं
वज्रविद्याधराबन्धः समया ऽयं महात्मनः ।
यस्तु क्रोधो निरीक्षेत स्थेयन्तस्य पुरस्तथा
वज्ररक्षां दृढां बध्वा वज्रबन्धं तु पीडयेत् ।
भौमानां समयो ह्येष सर्वसत्वाभिरक्षकः
यस्तु कश्चित्परित्रार्थे बन्धेत्क्रोधसमन्वितः ।
रक्षायै[य]स्य सत्वस्य स्थातव्यं तस्य पृष्ठतः
वज्रमुद्रद्विकं बध्वा वमवज्राग्रपीडिता ।
वलितोद्वलितं कृत्वा स्फोटयेत्कन्यसाङ्गलि
य[दि क्रोधं समाविशेत्] प्रयुञ्चेत् समयोह्य ।
तस्य युष्माभिः पुरतः स्थेयं सर्वाग्रसिद्धय ॥ इति
ग्रन्थितं वज्रबन्धेन दृढन्तर्जनी [योगेन] ।
मध्यमाङ्गुष्ठमुखयोर्वज्रमुद्रां परिक्षिपेत्
परिवर्त्य ललाटे तु स्थाप्य यस्तु समाव्हयेत् ।
तस्य स्थेयं पुरः शश्वद् यदि जीवि[तं स्थापयेद्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0