सर्वतथागततत्त्वसंग्रह · अध्याय 43
इति ।
सर्वतथागततत्वसंग्रहात्सर्वतथागतमहायानाभिसमयो नाम महाकल्पराजा समाप्तः ॥
छप्तेर् 6 त्रिलोकविजय-मह-मन्दल-विधि-विस्तर
ह्य्म्न् ओf 108 नमेस् ओf महचक्रवर्तिन्
अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य, भगवन्तं सर्वतथागतमहाचक्रवर्तिनमनेन नामाष्टशतेनाध्येषितवन्तः ।
वज्रसत्व महावज्र वज्रनाथ सुसाधक ।
वज्राभिषेक वज्राभ वज्रकेतु नमो [ऽस्तुते]
हासवज्र महाधर्म वज्रकोश महावर ।
सर्वमण्डलराजाग्र्य निःप्रपञ्च नमो ऽस्तु ते
वज्रकर्म महारक्ष चण्डयक्ष महाग्रह ।
वज्रमुष्टि महामुद्र सर्वमुद्र नमो ऽस्तु ते
बोधिचित्त महाबोधे बुद्ध सर्वतथागत् ।
वज्रयान् महाज्ञान महायान नमो ऽस्तु ते
सर्वार्थ सर्वतत्वार्थ महासत्वार्थ सर्ववित् ।
सर्वज्ञ सर्वकृत्सर्व सर्वदर्शि नमो ऽस्तु ते
वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् ।
महासमय तत्वार्थ महासत्य नमो ऽस्तु ते
वज्राङ्कुश महाकाम सुरते सुमहाप्रभ ।
वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमो ऽस्तु ते
वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम ।
वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमो ऽस्तु ते
वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् ।
वज्रसूक्ष्म महाध्यान वज्रकार्य नमो ऽस्तु ते
बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध ।
बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमो ऽस्तु ते
बुद्धपूजा महापूजा सत्वपूजा सुपूजक ।
महोपाय महासिद्धे वज्रसिद्धि नमो ऽस्तु ते
तथागतमहाकाय तथागतसरस्वते ।
तथागतमहाचित्त वज्रचित्त नमो ऽस्तु ते
बुद्धाधिप जिनाज्ञाकृद्बुद्धमित्रे जिनाग्रज ।
महावैरोचन विभो[शास्ता]शान्तरौद्र नमो ऽस्तु ते
तथागतमहातत्व भूतकोटे महानय ।
सर्वपारमिताज्ञान परमार्थ नमो ऽस्तु ते
समन्तभद्र चर्याग्र्य मार मारप्रमर्दक ।
सर्वाग्र्य समाताज्ञान सर्वत्रग नमो ऽस्तु ते
बुद्धहुंकर हुंकर वज्रहुंकर दामक ।
विश्ववज्राङ्ग वज्रोग्र वज्रपाणे नमो ऽस्तु ते
वन्द्यः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः ।
यस्माद्वज्रदृढं चित्तं वज्रसत्वस्त्वमुच्यसे
त्वदधीना हि संबोधि पिता त्वं सर्वदर्शिनां ।
संभूताः संभविष्यन्ति त्वामासाद्य तथागताः
अनेन स्तोत्रराजेन स्तुयाद्वै सुभक्तितः ।
यो गायंस्तु स्तुयात्सो ऽपि भवेद्वज्रधरोपमः
अध्येषयामस्त्वान्नाथ सर्वबुद्धवशङ्करं ।
सर्वसत्वार्थकार्यार्थमुत्पादय कुलं स्वकम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0