सर्वतथागततत्त्वसंग्रह · अध्याय 42
इति ॥
इनितिअतिओन् इन्तो थे मन्दल
ततो यथावदाकर्षण[प्रवेशादिं कृ]त्वा सर्वतथागतसिद्धिज्ञानान्युत्पादयेत् ॥
तत्र प्रथमन्तावद्वक्तव्यं "न त्वया कस्यचिददृष्टसमयस्यैषां रहस्यानाम[कोवि]दस्य वक्तव्यं । मा ते सर्वापायोपपत्तये भवेयु, र्विषमापरिहारेणाकालमरणं वा स्याद्" इति ॥
ततो वज्रसत्वोत्तमसिद्धिसाधनज्ञानं शिक्षयेत् ।
पूर्णचन्द्रमण्डलारूढो महामुद्रापरिग्रहः ।
वज्रसत्वं स्वमात्मानं भावयं सिध्यते लघु ॥ रिति ॥
ततः सर्वमण्डलगुह्यसमयज्ञानं शिक्षयेत् ।
विरागसदृशं पापमन्यन्नास्ति त्रिधातुके ।
तस्मात्कामविरागित्वं न कार्यं भवता पुनः ॥
महासमय हन् फट् ॥
ततः शपथहृदयं दद्यादेवं । सर्वतथागतकुलमण्डलेषु विधिविस्तरेषु समयसंवरन्दातव्यं ॥
ततो वज्रसत्वमहामुद्रादिबन्धचतुष्टयं शिक्षयेत् । तथैव सिद्धय इति ।
एवं पटादिषु सर्वप्रतिमासु च मनीषितविधानेन सर्वसिद्धयो ददन्ति । एवं यथा वज्रधातुमहामण्डलविधिविस्तर इति ॥
मुद्र
अथ सर्वतथागताः पुनरपि समाहजामागत्य, भगवते सर्वतथागताधिपतये महाबोधिचित्ताय वज्रसत्वाय महावज्रपाणये वज्रतुष्ट्यानेन हृदयेन साधुकारमददुः ओं ॥
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहं
वज्रसत्वस्य नामापि सर्वसिद्धिकरं परं ।
साध्यमानस्तु शुद्ध्या वै सुखैर्बुद्धत्वमाप्नुयात्
वज्रधर्मप्रयोगेण सर्वकामसुखैः सुखं ।
साधयेज्जन्मनीहैव सुखमक्षयमव्ययम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0