भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 41

41.1

इति ॥
"ततो यथावद् वज्रसत्वादिमहामुद्राबन्धचतुष्टयं शिक्षयित्वा, यथावद् वज्रधातुमहामण्डलविधिविस्तर इति, यथावज्रसिद्धिचतुर्मुद्रामण्डलमेवमक्षोभयादीनि सर्वमण्डलानि चतुर्मुद्रामण्डलयोगेन लिखेत् । स्वाभिः स्वाभिर्मुद्राभिः सर्वसिद्धयो ददन्तीति । एवम्पटाकुड्याकाशसर्वस्थानाभिलिखितानि सर्वसिद्धयो ददन्तीति ॥
मण्डलकल्पनात्प्रभृति केषांचित्तस्मिन्नेव मण्डलप्रवेशे सिद्धिर्यथाभिरुचिता, केषांचित्तत आरभ्य दिवसेन, केषांचिद् दिवसचतुष्टयेत्, केषांचिच्छोडशाहात्, केषांचित्पञ्चानन्तर्यकारिणामपि यथाकामं सुखतः सर्वकार्याणि कुर्वतां सर्वानुरागसर्वरसाहारविहारसुखान्यनुभवतां वर्षेणोत्तमा सिद्धिरिति भगवता निदिष्टेति ॥
1.6 एमनतिओन् ओf थे देइत्य् fरोम् समधि
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतोत्तमसिद्धिसमयवज्रन्नाम समाधिं समापद्येमं सर्वतथागतमहायानाभिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसत्व ॥
देलिनेअतिओन् ओf थे मन्दल
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वोत्तमसिद्धये इदं महायानाभिसमयमण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि सत्वमण्डलमुत्तमं ।
वज्रधातुप्रतीकाश वज्रसत्वमिति [स्मृतं]

41.2

महामण्डलयोगेन सुत्रयेद्बाह्यमण्डलं ।
चन्द्रमण्डलमध्ये तु वज्रसत्वन्निवेशयेद्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc